शयनीये परावृत्य शयितौ कामिनौ रुषा ।
तथैव शयितौ रागात् स्वैरं मुखमचुम्बताम् ॥ ११९ ॥

कामी च कामिनी च कामिनौ स्त्रीपुंसौ रुषा प्रण्यकलहेन हेतुना परावृत्य पराङ्मुखीभूः[य] शयनीये तल्पे शयितौ । तथैव परावृत्त्यैव मुखमन्योन्यस्य स्वैरं यथेष्टं रागादचुम्बताम् चुम्बितवन्तौ इति मोहो जायते । कथं नाम परावृत्य शयितौ स्वैरं मुखं चुम्बत इति ? यथा पूर्वं संमुखं शयितौ तथैव पुनः संविष्टौ रागपरवशतया स्वैरं मुखमचुम्बतामिति तु परमार्थः । इयमेव साक्षान्निर्दिष्टार्थापि संमोहकारिणीति संमूढा दर्शिता ॥