विजितान्नभवद्वेषिगुरुपादहतो जनः ।
हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति ॥ १२० ॥

249 विना पक्षिणा गरुडेन । सामर्थ्यात् तेन किल देवराजमभिभूय कदाचिद—मृतमाहृतम् । [जितम्] विजितम् आत्मसात् कृतम् [अन्नमाहारो] यस्य स विजितान्नः अभृतभोजी । स चार्थादिन्द्रः । भवत्यस्मादिति भवः । विजितान्नो भवो जन्महेतुर्जनकः । यस्य यस्माद् वा भवो भवनं जन्म यस्य स विजितान्नभव अर्जुनः तं द्वेष्टी[ति] विजितान्नभवद्वेषी कर्णः । तस्य गुरुरादित्यः । तस्य पादैः किरणैः हतस्ततः । तादृशी जनो व्योम गगनमभिनन्दति । प्रीतिनिर्भ रेणान्तःकरणेन गृह्णाति । किंविशिष्टम् ? हिममपहन्तीति हिमापहः अग्निः । तस्यामित्रम् उदकम् । तद् धारयन्तीति हिमापहामित्रधरा मेघाः । तैर्व्याप्तम् । अत्र विजयसम्बन्धाद् विजितमित्यमृतस्य भानं निवृत्तम् । तत्सम्बन्धाच्च विजितान्न इतीन्द्रस्य । तस्माद् जन्मयोगाद् विजितान्नभव इत्यर्जुनस्य । तद्वैरयोगाच्च विजितान्नभवद्वेषीति कर्णस्य । तज्जन्मयोगाच्च विजितान्नभवद्वेषिगुरुरित्या[दित्य]स्य । 111b हिमोपघातयोगेन हिमापह इत्यग्नेः । तदमित्रतायोगाच्च हिमापहामित्रमित्युदकस्य । तद्धारणसम्बन्धाच्च हिमापहामित्रधरा इति मेघानाम् । एवं सम्बन्धपारिहारिकीयमुदाहृता ॥