111b हिमोपघातयोगेन हिमापह इत्यग्नेः । तदमित्रतायोगाच्च हिमापहामित्रमित्युदकस्य । तद्धारणसम्बन्धाच्च हिमापहामित्रधरा इति मेघानाम् । एवं सम्बन्धपारिहारिकीयमुदाहृता ॥

न स्पृशत्यायुधं जातु न स्त्रीणां स्तनमण्डलम् ।
अमनुष्यस्य कस्यापि हस्तोऽपं न किलाफलः ॥ १२१ ॥

अमनुष्यस्य कस्याप्यनिर्धारितरूपविशेषस्य हस्तः जातु कदाचिदपि आयुधं न स्पृशति गृह्णाति । न च स्त्रीणां स्तनमण्डलं पयोधरभारं स्पृशति । अयमेवं फलभूतकर्मरहितो हस्तो नाफलः सफलः किल । नान्यादृशं साफल्यमस्यास्मभ्यं रोचत इति किलशब्देन सूचयति । अत्राश्रितो हस्तः अभिव्यक्तो वाचकप्रयोगात् । आश्रयस्तु गोपितः, गन्धर्वहस्त इति साक्षादनभिधानात् । गन्धर्वहस्त इति चाभिधानमेरण्डस्य । तदियमेकच्छन्ना दर्शितेति ॥

केन कः सह सम्भूय सर्वकार्येषु सन्निधिम् ।
लब्ध्वा भोजनकाले तु यदि दृष्टो निरस्यते ॥ १२२ ॥

केन शिरसा सह सम्भूय संगत्य सर्वेषु कार्यादिषु स्नाना[धि]वासनादिषु सन्निधिमुपस्थानं लब्ध्वा प्राप्य भोजनकाले अन्नगतो यदि कथञ्चिद् दृष्टः स्यात्, तदा कः तादृशो नि[र]स्यते ? केशः । तस्य तादृशत्वात् । अत्र केन क इति सामान्यपद