केन कः सह सम्भूय सर्वकार्येषु सन्निधिम् ।
लब्ध्वा भोजनकाले तु यदि दृष्टो निरस्यते ॥ १२२ ॥

केन शिरसा सह सम्भूय संगत्य सर्वेषु कार्यादिषु स्नाना[धि]वासनादिषु सन्निधिमुपस्थानं लब्ध्वा प्राप्य भोजनकाले अन्नगतो यदि कथञ्चिद् दृष्टः स्यात्, तदा कः तादृशो नि[र]स्यते ? केशः । तस्य तादृशत्वात् । अत्र केन क इति सामान्यपद250 प्रयोगादाश्रयः शिरोलक्षणः आश्रितश्च केशः । तौ च्छन्नौ इत्युभयच्छन्नेयमुदाहृता । केनेश इति [पाठे] केन ककारेण ईशशब्दः सम्भूय, शेषं पूर्ववत् । केन ब्रह्मणा ईशः शङ्कर इति चार्थान्तरं वाच्यम् । तन्महाप्रयोगादुभय[गो]पनं प्रागिवेति व्याख्येयम् ॥