सेयं प्रक्रान्ता प्रहेलिका तल्लक्षणयोगान्नामान्तरितया मिश्रेण संसृष्टेन वञ्चिताया रूपेण योगः सम्बन्धोऽस्यास्तीति नामान्तरितामिश्रवञ्चितारूपयोगिनी । मातृकेत्यस्मिन्नाम्नि सहयेत्यादिनानेकार्थकल्पनादमातृकाशब्देनाजननी, मूढेनानधीतसिद्धमातृकाप्रतीतिविप्रलम्भात्, अक्षरज्ञशब्देन च वर्णज्ञप्रसिद्धेन वेदवेदिन्यविनश्वरज्ञेवानिश्चयवञ्चनात् ।
संकरशेषमतिदिशन् प्रस्तावमिमं निगमयति— एवमेव यथोक्तसंकरानुसारेण इतरासामपि 112b नामान्तरितावञ्चिताव्यतिरिक्तानां च । न केवलमनयोः ।251 संकरस्य संसर्गस्य क्रमः प्रकार उन्नेयोऽभ्यूह्यः । स चैव मुन्नीयताम्—
समागता [व्युत्क्रान्तयोः] संकरः ।
समानरूपासमानशब्दयोरयं संकरः ।
पारिहारिकीप्रकल्पितयोः संकरः ।