251 संकरस्य संसर्गस्य क्रमः प्रकार उन्नेयोऽभ्यूह्यः । स चैव मुन्नीयताम्—
समागता [व्युत्क्रान्तयोः] संकरः ।
समानरूपासमानशब्दयोरयं संकरः ।
पारिहारिकीप्रकल्पितयोः संकरः ।
एवं शब्दालङ्कारस्वभावाः काव्यगुणा यथावत् प्रतिपादि[ताः] । दोषा अपि केचिदसाधारणवैदर्भमार्गसम्भविनः श्लेषादयः । संप्रति सर्वमार्गसाधारणानुपदर्शयन्नाह—
अपगतोऽर्थः अभिधेयो वाक्यसम्बन्धि यत इत्यपार्थम् । विरुद्धः पूर्वापराहतः अर्थोऽभिधेयो यस्मिन्निति व्यर्थम् । एकः स एव प्रतिपादितोऽर्थोऽभिधेयः पुनर्यस्मिन् प्रतिपाद्यते तदेकार्थम् । संशयोऽर्थविषयः, किमयमर्थोऽयं वेत्युभयार्थावलम्बी प्रत्ययः, तेन [स]ह वर्तते तज्जनकत्वादिति ससंशयम् । अपगतः क्रमो यथोद्देशं प्रत्याम्नायत इत्यपक्रमम् । शब्देन शब्दविद्याप्रसिद्धेन पदेन हीनं रहितं तद्विपक्षयोगादिति शब्दहीनम् । यतेः छन्दःशास्त्रविहितात् विगमात् भ्रष्टमपगतमिति यतिभ्रष्टम् । भिन्नं