279
तदधिकमथ तादृशं विधातुंचतुरमतिः परदूषणे क्रमेत ।
वितथा बुधविदग्धता विधातःप्रवदति यत् तदिदं तु कर्णशूलम् ॥
खलजनपरिनिन्दया गुणानांन च विहतिः प्रकृतिस्तु तस्य सैषा ।
भवति तु भणितिस्ततः स्फुटेयंन खलु खला गुणवर्जितं द्विषन्ति ॥
शिशिरयन्ति य एव म[न]स्विनःशशभृतः किरणा इव सद्गुणाः ।
यदि दहन्ति त एव खलानलंक्व भवतामथवा खलवल्लभः ॥
दुःखासिका किमियमेति खलं प्रकाश-कान्तैर्गुणैर्गुणवतां क इवास्य नाशः ।
प्रीतिं परां सुजनवत् किमयं न भुङ्क्तेप्रीत्यर्थ एव सकलः पुरुषप्रयासः ॥
तारयन्ति परमित्यतिशीतै-रभ्युपैति सुजनान् परतापी ।
स्वैर्गुणैरिदमनुक्तमुदात्तै-रन्तरं सदसतोरतिदूरम् ॥
वाक्यमक्षतगुणं परात्मनोनाद्रियेत सुजनस्य सूरिभिः ।
सर्वथा स्वपरघाति वाग्विषंदुर्जनस्य परिगृह्यते कथम् ॥