280
निन्दितं स्तुतमथापि यत्कृतंन प्रमाणमुपकल्प्यते क्वचित् ।
तादृशं च लपितं यदीहतेधिग् विडम्बनमनात्मवेदनम् ॥
ईर्ष्ययाधिगुणेषु दीप्तयास्पर्धया च सदृशेषु दह्यते ।
निर्निमित्तमधमेष्ववज्ञयाकेन सोऽयमनुरज्यतां खलः ॥
शिष्यते यदि रूपा प्रदीप्यतेन स्वयं च गुणवर्त्म गाहते ।
दुर्जनः कथमयं चिकित्स्यता-मूर्जनान्न परमस्य भेषजम् ॥
दोषमेव गुणतो विगाहतेतत्र चान्यमनुशास्ति दुर्मतिः ।
ज्ञातवानपि कथंचिदन्यतःपक्षभङ्गभयतो न मुञ्चति ॥
इत्यलीकबुधमानदूषितंदूरतस्तमपवादवर्त्मनः ।
कालदष्टमिव वर्जयन्त्यमीसाधु शासनविदोऽपि साधवः ॥
भक्तिमानधिगुणाद् गुणामृतंसेवते तदवरेषु वर्षति ।
तद्विवृद्धिपदवीं समं समैःसंकथां दिशति दक्षिणो जनः ॥