281
नामतोऽपि सुजनः सुखावहःकिं पुनर्गुणमयेन कर्मणा ।
त्रासयत्युभयथापि सर्पवद्दुर्जनस्त्वयमकाण्डरोषणः ॥
अद्भुतप्रति[भया] विशारदाःशारदेन्दुविशदा विपश्चितः ।
कस्य नाम न हरन्ति मानसंदुर्जनः किल न तेषु तुष्यति ॥
नान्तमेति सुजनः सुचेष्टिताद्दुर्जनोऽपि चरितादसद्गुणात् ।
किंचिदे[व स्थित]मन्तरं तयो-रागतं प्रकरणात्कथंचन ॥
सर्वथा भुवनपावनात्मनेसज्जनाय गुणराशये नमः ।
सद्गुणप्रणिहिता दुरात्मना-मस्तु बुद्धिरवधूय दुष्टताम् ॥
सर्वाभ्युन्नतराष्ट्रकूटतिलस्याशान्तगीत[स्तुते]-रुद्दामद्विषदन्तकस्य गुणिनां धाम्नो गुणानामपि ।
लक्ष्मीजुष्टपदाम्बुजस्य जयिनः सामन्तचूडामणेःश्रीम[त्तु]ङ्गनराधिपस्य सुधियः सानाथ्यमेवंविधम् ॥
कीर्तयो विदुषां तुङ्गमहीधरसमाश्रयात् ।
प्रभवन्ति महानद्यो यथा लोकार्थवृत्तयः ॥
यशःकीर्तिरिति ख्यातः श्रीमानन्त्यभ(?)सूरतः ।
कल्याणमित्रमत्राभूद् भिक्षुः सिन्धुविभूषणः ॥