एवं शब्दालङ्कारस्वभावाः काव्यगुणा यथावत् प्रतिपादि[ताः] । दोषा अपि केचिदसाधारणवैदर्भमार्गसम्भविनः श्लेषादयः । संप्रति सर्वमार्गसाधारणानुपदर्शयन्नाह—
अपगतोऽर्थः अभिधेयो वाक्यसम्बन्धि यत इत्यपार्थम् । विरुद्धः पूर्वापराहतः अर्थोऽभिधेयो यस्मिन्निति व्यर्थम् । एकः स एव प्रतिपादितोऽर्थोऽभिधेयः पुनर्यस्मिन् प्रतिपाद्यते तदेकार्थम् । संशयोऽर्थविषयः, किमयमर्थोऽयं वेत्युभयार्थावलम्बी प्रत्ययः, तेन [स]ह वर्तते तज्जनकत्वादिति ससंशयम् । अपगतः क्रमो यथोद्देशं प्रत्याम्नायत इत्यपक्रमम् । शब्देन शब्दविद्याप्रसिद्धेन पदेन हीनं रहितं तद्विपक्षयोगादिति शब्दहीनम् । यतेः छन्दःशास्त्रविहितात् विगमात् भ्रष्टमपगतमिति यतिभ्रष्टम् । भिन्नं252 छन्दोविचितिविद्यारूढं वृत्तं पद्यं जातेरपि विरोधसम्भवात् यस्मिन्निति भिन्नवृत्तम् । विगतः सन्धिः शब्दशास्त्रप्रसिद्धो यणादेशादिर्यस्मिन्नितिं विसन्धिकम् ॥
देशः पर्वतादिः । कालो दिवसादिः । कला नृत्यगीतादिविद्याः । लोकश्च सत्त्वलोको भाजनलोको वा चित्रप्रचारः । न्यायश्चान्वीक्षिकी । आगमश्च वेदादिः । देशकालकलालोकन्यायागमाः । तैर्विरोधो बाधा विद्यतेऽस्मिन्निति देशकालकलालोकन्यायागमविरोधि च तत्तद्व्यवस्थातिक्रमात् । विरोधीत्येतद्देशादिभिः प्रत्येकं सम्बन्धनीयम् । चकार उक्तसमुच्चये । इत्येते अनन्तरोद्दिष्टा दशैव । अन्यूनानतिरिक्ता दोषा गुणविपक्षत्वाद् वर्ज्याः शास्त्रचक्षुषा दृष्ट्वा परिहर्तव्याः । सूरिभिः प्रतिपत्तृभिः । कुत्र ? काव्येषु पूर्वोक्तरूपेषु । काव्यविशेषदोषाणामपि क्वचित् केषाञ्चित् प्रतिनियमात् । तत्सम्भवित्वात् काव्यदोषास्ते, यथा हेतुसम्भ[वि]नो113a ऽसिद्धादयो हेतुदोषाः । यथा चाराञ्जिकादयो धान्यसम्भविनो धान्यदोषा उच्यन्ते लोके । अत्रापार्थादयो यदा भावप्रधानाः, तदा अपार्थत्वादयो दूषणानीति भावसाधनेन दोषाः । दूषयन्ति वा काव्यव्यपदेशमात्रेण क्वचिद् वा अपवादविषये काव्यमेवेति तत्त्वात् अन्यत्रेति दोषाः । यद्वक्षति—
- ३. १२८↩