कीदृशं तदित्युदाहरति—
वारुणी दिगपरा । किंभूता ? पयोधरो मेघः स्तनश्च । शब्दश्लेषोऽयम् । तस्य तटः एकदेशः स एवोत्सङ्गो मध्यभागः । तत्र लग्नः स्थितः सन्ध्यातपः । दिनपरिणतिः स एवांशुकं रक्तं वस्त्रं यस्याः सा तथाभूता कस्य नाम कामिनश्चेतश्चित्तं कामातुरं मन्मथाक्रान्तं न करिष्यति ? सर्वस्यैव करोति रागानुकूलत्वात्तस्या अवस्थायाः । तादृशमनाकुलं हृद्यमोजः प्रयुञ्जते वैदर्भाः ।
51