23 मिश्रप्रकारोऽस्ति । यद्वच्चम्पूरिति यावत् । सा च जातकमालादमयन्त्यादि ॥
तदेवं शरीरभेदकृतं त्रैविध्यं काव्यानां परिसमाप्य भाषाभेदकृतं चातुर्विध्यं दर्शयन्नाह—
तदिदं वाङ्मयं भूयः संस्कृतं प्राकृतं तथा ।
अपभ्रंशश्च मिश्रं चेत्याहुराप्ताश्चतुर्विधम् ॥ ३२ ॥
यत् काव्यशरीरं त्रिविधमुक्तं तदिदं वाङ्मयं काव्यशरीरं भूयः पुनश्चत्वारो विधाः प्रकारा भाषामया यस्य