84b पि क्षणौ न तिष्ठन्ति । किं पुनश्चिरम् ? यदि परमेकं क्षणं तिष्ठन्ति । इह विवक्षितेन गुणेन क्षणमात्रास्थायित्वेनोत्कृष्टैः प्रतीतैस्तड़िद्विलसितैः समीकृत्य स्त्रीप्रेम्णामतिचपलतया निन्दार्थं कीर्तनमिति लक्षणं योजनीयम् ॥
विरोधं निदर्शयन्नाह—
विरुद्धानामन्योन्यप्रतिद्रन्द्विनां पदार्थानां क्रियागुणादीनां संसर्गस्य सन्निधेः दर्शनमवगमो यत्रोक्तिप्रकारे । किमर्थम् ? विरोधस्य विप्रतिषेधस्य साधनाय सविशेषं प्रत्यायनार्थमेव । अत एव विरोधप्रधानत्वात् स उक्तिविशेषः विरोध इति स्मृतः कथ्यते कविभिः । यथेत्युदाहरति ॥