264 इत्येवंविधं लक्ष्यम् । अपभाषणवत् शब्द[हीन]मिवाभाति प्रतिभासते । केषाम् ? शास्त्रं शब्दलक्षणादिकम् । तस्य माहात्म्यं प्रभावः । एवंविधलक्ष्यसंग्राहकत्वम् । तस्य दर्शनमभ्यासः तत्रालसं मन्दं चेतो येषामिति [शास्त्रमाहात्म्यदर्शनालसचेत]साम् शास्त्रमाहात्म्यदर्शनेन नेदृशी भ्रान्तिरुपजायते, तस्याज्ञ[त्वा]पनोदित्वात् । यथोक्तम्—
श्लोकेषु पद्येषु विषये पदस्य सुपतिङन्तस्य छेदो विरामः छन्दःशास्त्रप्रसिद्धः पदच्छेदः । नियतं तद्धि व्यवस्थानं चतुर्थवर्णादिलक्षणं यस्मिन्निति नियतस्थानम् । तन्नियतस्थानं पदच्छेदम् । अनुवादोऽयम् । यति विदुः स्मरन्ति तद्विद इति विधिः । तस्या यतेरपेतमपगतं तदपेतं यतिभ्रष्टम् । श्रवणं कर्णमुद्वेजयतीति श्रवणोद्वेजनम् । अनश्च हेयम् । श्रुतिसुभगं हि लक्षणानुगतं काव्यमुपादीयते । यथेति [यतिभ्रष्टम्] उदाहरति ॥
शिष्टैरमा सह । संगीतविधिं प्रेक्षणकम् । अक्लिष्टा यथागमं प्रयुक्ता रसाः शृङ्गारवीरादयोऽस्मिन्निति अक्लिष्टरसं स्त्रीणां सम्बन्धिनम्, तत्प्रयुक्तत्वात् । अयं विवक्षितः कश्चिदादित्यवंश्यः सूर्यान्वयसम्भूतः । नरेन्द्रः पश्यतीह प्रस्तावे । इह वाचोयुक्तौ [वा] । अत्र मन्दाक्रान्तायां समुद्रर्तुलोकैः [४।६।७] यतिविधानम् ।
- प्रमाणवार्त्तिके १. ७ ↩