122a द्यानानि । आर्द्राणि स्निग्धानि अंशुकानि वस्त्राण्येव प्रवालानि किसलयानि येषामित्यार्द्रांशुकप्रवालानां सुरशाखिंनां कल्पवृक्षाणामाम्पदं सद्म । आस्पदार्थस्य एकार्थ्येन विवक्षितत्वात् उद्यानादिबहुत्वसमानाधिकरण्येऽपि एकवचनम् । जज्ञिरे जातानि । पुण्यप्रभावस्याचिन्त्यत्वात् मनुष्यलोकेऽपि सुरशाखिनः सम्भवः । एवमुक्तमाचार्यशूरेण—
खरो रूक्षो मारुतः कदम्बरजसा कदम्बपुष्परेणुना सह सप्तच्छदोद्गमान् सप्तपर्णकुसुमानि धुन्वन् विकिरन् राज्ञां विनाशस्य पिशुनः पञ्चतां सूचयन् चचार प्रववौ । यद्यपि एकदा कदम्बसप्तपर्णकुसुमासम्भवः कदम्बकुसुमस्य प्रावृषेण्यत्वात् सप्तच्छदपुष्पस्य च शारदत्वात्, तथापि राजविनाशनिमित्तमीदृशमौत्पातिकं सम्भवतीति न कालविरोधः ॥
- जातकमालायाम् ४. १९↩