22a नमनुभूयते54 इति ।
इत्यपरमुदाहरणम् ॥नमः सम्पन्नकृत्याय बुद्धाय जगदर्थिने ।
कन्दर्पविभ्रमच्छेदवेधसे क्लेशविद्विषे ॥
अस्य समानश्रुतिलक्षणस्य माधुर्यस्य गौडवर्त्मनि विपर्ययं दर्शयन्नाह—
इतीदं नादृतं गौडैरनुप्रासस्तु तत्प्रियः ।
अनुप्रासादपि प्रायो वैदर्भैरिदमीप्सितम् ॥ ५४ ॥
इतीदम् एवंबिधं समानपदासत्तिलक्षणं माधुर्यं गौड़ैर्नादृतम्, न बहु मन्यते ।
- १.५२↩