45 सौकुमार्यविपर्ययं गौडवर्त्मनि दर्शयन्नाह—
दीप्तमूर्जितं साटोपमेतदिति मन्यमानैरपरैः पौरस्त्यैः कृच्छ्रोद्यं दुर्वचं कष्टोच्चारणमसुकुमारतरमपि काव्यं बध्यते प्रयुज्यते न केवलसुकुमारमात्रमित्यपिंशब्दः । भूम्ना प्रायः । ततश्च सुकुमारमपि किंचिदुष्णमधुन्यायेन येनोपयुज्यत इति सूचयति तदुदाहरति । 61न्यक्षेण निःशेषेण क्षपितः निहतः क्षणात् सपदि स्तोकेन कालेनेत्यर्थः । क्षत्रियाणां राज्ञां पक्षो वर्गः परशुरामेणान्येन वा केनचिदिति गम्यते । नन्वेतद्विवक्षितं कृच्छ्रोद्यमात्रं तूदाहृतमिति यथा तादृशमित्यर्थः ॥
अर्थव्यक्तिं व्याख्यातुमाह—
अर्थस्य काव्याभिधेयवस्तुनो नेयत्वं शब्दतोऽर्थतो वाप्रतीतिरन्यथावगमः स्यात् । गत्यन्तराभावात् । यद्वक्ष्यति—न हि प्रतीतिः सुलभा शब्दन्यायविलंघिनी । इति ।62
नेयत्वभेदमनूद्यार्थव्यक्तिर्विधीयते । तदुदाहरति । हरीत्यादि, हरिणा वराहरूपधारिणा विष्णुना पृथिवी भूरुद्धृता समुत्तारिता उदधेः समुद्रात् । किंविशिष्टात् । खुरैर्महावराहस्येत्यर्थाद्गम्यते । चरणाग्रैः क्षुण्णानां चूणितानां नागानामुरगाणामसृजा रुधिरेण लोहितादरुणात्