56 एककालम् नैकेषां बहूनां धर्माणा क्रियादिरूपाणामध्यासः समाधिश्च मत इष्यते । चकार उक्तसमुच्चये । यथेत्युदाहरति ।
गुरुगर्भेत्यादि—
गुरुर्गृहीतसारत्वात् गर्भोऽन्तर्भागः स एव भरो भारः दुर्वहत्वात् तस्य वा भरोऽवसादः । तेन ल्कान्ता ग्लानाः स्तनन्त्यः ल्कान्त्यनुरूपं शब्दं कुर्वाणाः मेघपङ्क्तयः पयोदमाला इमा एता अचलस्य पर्वतस्य अधित्यकायाः उपरिभूमेरुत्सङ्गं समधिशेरतेऽध्यासते ॥
कियन्तोऽत्र धर्मा अध्यस्ता इति दर्शयन्नाह—
सख्याः कस्याश्चित् उत्सङ्गे शयनं स्तननमार्तरुतं गौरवं गर्भकृत[दुर्भरत्वा]दिलक्षणं तत्कृतश्च ल्कमः ग्लानिरित्येते गर्भिण्या अन्तर्वत्न्या धर्माः प्रसिद्धा बहवोऽनेके अन्यत्र मेघपङ्क्तिषु.........दर्शिता अध्यस्ता इत्ययमनेकधर्मसमाधिः ॥
समाधिः सोऽयं व्यापकः सुभगश्चेति