12 प्रतिपत्तव्यम् । एतच्च स्वयमेव वक्ष्यति—न्यूनमप्यत्र यैः कैश्चित्13 इत्यादौ । चतुरोदात्तनायकम् । चतुरः कुशलः उत्याहशक्त्यादियोगात् । उदात्त उदारस्त्यागातिशयादिसंबन्धात् नायकः विपक्षः प्रतिपक्षश्च14 । द्वयोरपि नायकत्वात्, यस्मिन् तत् तथा ॥
पुनः किं विशिष्टमित्याह—
चन्द्रश्चार्कश्च तयोरुदयः । नगरं च अर्णवश्च शैलश्च ऋतुश्च चन्द्रार्कोदयश्चेति चार्थं कृत्वा तेषां वर्णनानि गुणोद्भावनानि इति षष्ठीसमासः । तानि च यथासम्भवमादौ मध्येऽन्ते वा । न चानुक्रमनिय[मेन] एतानि निबध्यन्त इति एवंपरमेतत् । तैरलंकृतमिति15 वक्ष्यति । उद्यानं सलिलं च तयोः क्रीडा विहारः । सा च मधुपानकं च रतोत्सवश्चेति चार्थः । रतमेवोत्सवः प्रीतिविशेषः, तेषां तु क्रमो दृश्यते । अनेन सम्भोगात्मकः श्रृङ्गार उक्तः । तैरलंकृतम् ॥
पुनर्विशेषयन्नाह—
विप्रलम्भा विरहाः । अयं विप्रलम्भात्मकः श्रृङ्गारः । विवाहाः शास्त्रोक्ता गन्धर्वादयः । कुमाराणामुदया जन्मानि वधनानि च बाल्यादिवयःप्राप्तिलक्षणानि । तैश्चालंकृतम् । मन्त्रः क्रियारम्भदेशकालविभागपुरुषद्रव्यसम्यग्विनिपातक्रियाकार्यसिद्धिलक्षणपञ्चाङ्गात्मककार्यनिश्चयः । यदाह माघः—