146-a
त्रिकण्टकैरण्डशतावरीभिः
सिद्धं पयो वा तृणपञ्चमूलैः ।
गुडप्रगाढं सघृतं पयो वा
रोगेषु कृच्छ्रादिषु शस्तमेतम् ॥ ९ ॥
नलकुशकाशेक्षुशिफां
क्वथितां प्रातः सुशीतलां शीताम् ।
पिबतः प्रयाति नियतं
मूत्रग्रह इत्युवाच कचः ॥ १० ॥
गोधावत्या मूलं
क्वथितं घृततैलगोरसैर्मिश्रम् ।
पीतं निरुद्धमचिरा-
द्भिनत्ति मूत्रस्य संघातम् ॥ ११ ॥
जलेन खदिरीबीजं मूत्राघाताश्मरीहरम् ।
मूलं तु त्रिजटायाश्च तक्रपीतं तदर्थकृत् ॥ १२ ॥
मूत्रे विबद्धे कर्पूरचूर्णं लिङ्गे प्रवेशयेत् ।
शृतशीतपयोन्नाशी चन्दनं तण्डुलाम्बुना ॥ १३ ॥
पिबेत्सशर्करं श्रेष्ठमुष्णवाते सशोणिते ।
शीतोऽवगाह आबस्तिमुष्णवातनिवारणः ॥ १४ ॥
कूष्माण्डकरसश्चापि पीतः सक्षारशर्करः ।
स्त्रीणामतिप्रसङ्गेन शोणितं यस्य सिच्यते ॥ १५ ॥