Adhikāra 48

189-a
आदौ भग्नं विदित्वा तु सेचयेच्छीतलाम्बुना ।
पङ्केनालेपनं कार्यं बन्धनं च कुशान्वितम् ।
सुश्रुतोक्तं च भग्नेषु वीक्ष्य बन्धादिमाचरेत् ॥ १ ॥
अवनामितमुन्नह्येदुन्नतं चावनामयेत् ।
आच्छेदतिक्षिप्तमधोगतं चोपरि वर्तयेत् ॥ २ ॥
आलेपनार्थं मञ्जिष्ठामधुकं चाम्लपेषितम् ।
शतधौतघृतोन्मिश्रं शालिपिष्टं च लेपनम् ॥ ३ ॥
सप्तरात्रात्सप्तरात्रात्सौम्येष्वृतुषु मोक्षणम् ।
कर्तव्यं स्यात्त्रिरात्राच्च तथाग्नेयेषु जानता ॥ ४ ॥
काले च सामशीतोष्णे पञ्चरात्राद्विमोक्षयेत् ।
न्यग्रोधादिकषायं च सशीतं परिषेचने ॥ ५ ॥
पञ्चमूलीविपक्वं तु क्षीरं दद्यात्सवेदने ।
सुखोष्णमवतार्यं वा चक्रतैलं विजानता ॥ ६ ॥
मांसं मांसरसः सर्पिः क्षीरं यूषः सतीलजः ।
बृंहणं चान्नपानं च देयं भग्नं विजानता ॥ ७ ॥
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् ।
शीतलं द्राक्षया युक्तं प्रातर्भग्नः पिबेन्नरः ॥ ८ ॥
सघृतेनास्थिसंहारं लाक्षागोधूममर्जुनम् ।
सन्धियुक्तेऽस्थिभग्ने च पिबेत्क्षीरेण मानवः ॥ ९ ॥
रसोनमधुलाक्षाज्यसिताकल्कं समश्नताम् ।
छिन्नभिन्नच्युतास्थीनां संधानमचिराद्भवेत् ॥ १० ॥
189-b
पीतवराटिकाचूर्णं द्विगुञ्जं वा त्रिगुञ्जकम् ।
अपक्वक्षीरपीतं स्यादस्थिभग्नप्ररोहणम् ॥ ११ ॥
क्षीरं सलाक्षामधुकं ससर्पिः
स्याज्जीवनीयं च सुखावहं च ।
भग्नः पिबेत्त्वक्पयसार्जुनस्य
गोधूमचूर्णं सघृतेन वाथ ॥ १२ ॥
लाक्षास्थिसंहृत्ककुभाश्वगन्धा-
श्चूर्णीकृता नागवलापुरश्च ।
संभग्नयुक्तास्थिरुजं निहन्या-
दङ्गानि कुर्यात्कुलिशोपमानि ॥ १३ ॥
अत्रान्यतोऽपि दृष्टत्वात्तुल्यश्चूर्णेन गुग्गुलुः ॥ १४ ॥
190-a
आभाफलत्रिकैर्व्योषैः सर्वैरेभिः समीकृतैः ।
तुल्यो गुग्गुलुरायोज्यो भग्नसन्धिप्रसाधकः ॥ १५ ॥
सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तमैः ।
प्रतिसार्य कषायैश्च शेषं भग्नवदाचरेत् ॥ १६ ॥
भग्नं नैति यथा पाकं प्रयतेत तथा भिषक् ।
वातव्याधिविनिर्दिष्टान्स्नेहानत्र प्रयोजयेत् ॥ १७ ॥
रात्रौ रात्रौ तिलान्कृष्णान्वासयेदस्थिरे जले ।
दिवादिवैवं संशोष्य क्षीरेण परिभावयेत् ॥ १८ ॥
तृतीयं सप्तरात्रं च भावयेन्मधुकाम्बुना ।
ततः क्षीरं पुनः पीतान्सुशुष्कांश्चूर्णयेद्भिषक् ॥ १९ ॥
काकोल्यादिश्वदंष्ट्रां च मञ्जिष्ठां शारिवां तथा ।
कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम् ॥ २० ॥
शतपुष्पां च संचूर्ण्य तिलचूर्णेन योजयेत् ।
पीडनार्थं च कर्तव्यं सर्वगन्धैः शृतं पयः ॥ २१ ॥
चतुर्गुणेन पयसा तत्तैलं विपचेत्पुनः ।
एलामंशुमतीं पत्रं जीरकं तगरं तथा ॥ २२ ॥
लोध्रं प्रपौण्डरीकं च तथा कालानुशारिवाम् ।
शैलेयकं क्षीरशुक्लामनन्तां समधूलिकाम् ॥ २३ ॥
पिष्ट्वा शृङ्गाटकं चैव प्रागुक्तान्यौषधानि च ।
एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाग्निना ॥ २४ ॥
एततैलं सदा पथ्यं भग्नानां सर्वकर्मसु ।
आक्षेपके पक्षाघाते चाङ्गशोषे तथार्दिते ॥ २५ ॥
मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ।
बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः ॥ २६ ॥
पथ्यं पाने तथाभ्यङ्गे नस्ये वस्तिषु योजयेत् ।
ग्रीवास्कन्धोरसां वृद्धिरनेनैवोपजायते ॥ २७ ॥
190-b
मुखं च पद्मप्रतिमं स्वस्वगन्धिसमीरणम् ।
गन्धतैलमिदं नाम्ना सर्ववातविकारनुत् ॥ २८ ॥
राजार्हमेतत्कर्तव्यं राज्ञामेव विचक्षणैः ।
तिलचूर्णचतुर्थांशं मिलितं चूर्णमिष्यते ॥ २९ ॥
लवणं कटुकं क्षारमम्लं मैथुनमातपम् ।
व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च ॥ ३० ॥