206-a
गगनाद्द्विपलं चूर्णं लौहस्य पलमात्रकम् ।
लौहकिट्टपलार्धं च सर्वमेकत्र संस्थितम् ॥ ४० ॥
मण्डूकपर्णीवशिरतालमूलीरसैः पुनः ।
वरीभृङ्गकेशराजकालमारिषजैरथ ॥ ४१ ॥
त्रिफलाभद्रमुस्ताभिः स्थालीपाकाद्विचूर्णितम् ।
रसगन्धकयोः कर्षौ प्रत्येकं ग्राह्यमेकतः ॥ ४२ ॥
तन्मर्दनाच्छिलाखल्वे यत्नतः कज्जलीकृतम् ।
वचा चव्यं यमानी च जीवकेशरपुष्पिका ॥ ४३ ॥
व्योषं मुस्तं विडङ्गं च ग्रन्थिकं खरमञ्जरी ।
त्रिवृता चित्रको दन्ती सूर्यावर्तोऽसितस्तथा ॥ ४४ ॥
भृङ्गमाणककन्दश्च खण्डकर्णक एव च ।
दण्डोत्पलाकेशराजकालावकडकोऽपि च ॥ ४५ ॥
एषामर्धपलं ग्राह्यं पटघृष्टं सुचूर्णितम् ।
प्रत्येकं त्रिफलायाश्च पलार्धं पलमेव च ॥ ४६ ॥
एतत्सर्वं समालोड्य लोहपात्रे तु भावयेत् ।
आतपे दण्डसंघृष्टमार्द्रकस्य रसैस्त्रिधा ॥ ४७ ॥
तद्रसेन शिलापिष्टं गुडिकां कारयेद्भिषक् ।
बदरास्थिनिभां शुष्कां सुनिगुप्तां निधापयेत् ॥ ४८ ॥
तत्प्रातर्भोजनादौ तु सेवितं गुडिकात्रयम् ।
अम्लोदकानुपानं च हितं मधुरवर्जितम् ॥ ४९ ॥
दुग्धं च नारिकेलं च वर्जनीयं विशेषतः ।
भोज्यं यथेष्टमिष्टं च वारि भक्ताम्लकाञ्जिकम् ॥ ५० ॥
हन्त्यम्लपित्तं विविधं शूलं च परिणामजम् ।
पाण्डुरोगं च गुल्मं च शोथोदरगुदामयान् ॥ ५१ ॥
यक्ष्माणं पञ्चकासांश्च मन्दाग्नित्वमरोचकम् ।
प्लीहानं श्वासमानाहमामवातं सुदारुणम् ।
गुडी क्षुधावती सेयं विख्याता रोगनाशिनी ॥ ५२ ॥