Adhikāra 53

सर्वासां वमनं पथ्यं पटोलारिष्टवासकैः ।
210-b
कषायैश्च वचावत्सयष्ट्याह्वफलकल्कितैः ॥ १ ॥
सक्षौद्रं पाययेद्ब्राह्म्या रसं वा हैलमोचिकम् ।
वान्तस्य रेचनं देयं शमनं चाबले नरे ॥ २ ॥
सुषवीपत्रनिर्यासं हरिद्राचूर्णसंयुतम् ।
रोमान्तीज्वरविस्फोटमसूरीशान्तये पिबेत् ॥ ३ ॥
उभाभ्यां हृतदोषस्य विशुष्यन्ति मसूरिकाः ।
निर्विकाराश्चाल्पपूयाः पच्यन्ते चाल्पवेदनाः ॥ ४ ॥
कण्टाकुम्भाडुमूलं क्वथनविधिकृतं
हिङ्गुमाषैकयुक्तं
पीतं बीजं जयायाः सघृतमुषितवाः
पीतमङ्घ्रिः सिकट्या ।
माघामूलं शिफा वा दमनकुसुमजा
सोषणा वाथ पूतिः
योगा वास्यम्बुनैते प्रथममथगदे
दृश्यमाने प्रयोज्याः ॥ ५ ॥
उद्धृत्य मुष्टिमाच्छाद्य भेषजं यत्प्रयुज्यते ।
तन्मुष्टियोगमित्याहुर्मुष्टियोगपरायणाः ॥ ६ ॥
उष्ट्रकण्टकमूलं वाप्यनन्तामूलमेव वा ।
विधिगृहीतं ज्येष्ठाम्बु पीतं हन्ति मसूरिकाम् ॥ ७ ॥
211-a
तद्वच्छृगालकण्टकमूलं च व्युषिताम्भसा ।
मसूरीं मूर्च्छितो हन्ति गन्धकार्धस्तु पारदः ॥ ८ ॥
निशाचिञ्चाच्छदे शीतवारिपीते तथैव तु ।
यावत्संख्यामसूर्यङ्गे तावद्भिः शेलुजैर्दलैः ॥ ९ ॥
छिन्नैरातुरनाम्ना तु गुणी व्येति न वर्धते ।
व्युषितं वारि सक्षौद्रं पीतं दाहगुणीहरम् ॥ १० ॥
शेलुत्वक्कृतशीताम्भःसेको वा कायशोषणे ।
उग्राज्यवंशनीलीयववृषकार्पासकीकसब्रह्मी ॥ ११ ॥
स्वरसमयूरकलाक्षाधूपो रोमान्तिकादिहरः ।
तर्पणं वातजायां प्राग्लाजचूर्णैः सशर्करैः ॥ १२ ॥
भोजनं तिक्तयूषैश्च प्रतुदानां रसेन वा ।
द्विपञ्चमूलं रास्ना च दार्व्युशीरं दुरालभा ॥ १३ ॥
सामृतं धान्यकं मुस्तं जयेद्वातसमुत्थिताम् ।
गुडूचीं मधुकं रास्नां पञ्चमूलं कनिष्ठकम् ॥ १४ ॥
चन्दनं काश्मर्यफलं बलामूलं बिकङ्कतम् ।
पाककाले मसूर्यां तु वातजायां प्रयोजयेत् ॥ १५ ॥
द्राक्षाकाश्मर्यखर्जूरपटोलारिष्टवासकैः ।
लाजामलकदुस्पर्शैः सितायुक्तैश्च पैत्तिके ॥ १६ ॥
211-b
शिरीषोदुम्बराश्वत्थशेलुन्यग्रोधवल्कलैः ।
प्रलेपः सघृतः शीघ्रं ब्रणविस्फोटदाहहा ॥ १७ ॥
दुरालभां पर्पटकं भूनिम्बं कटुरोहिणीम् ।
श्लैष्मिक्यां पित्तजायां वा पाने निःक्वाथ्य दापयेत् ॥ १८ ॥
निम्बं पर्पटकं पाठां पटोलं कटुरोहिणीम् ।
वासां दुरालभां धात्रीमुशीरं चन्दनद्वयम् ॥ १९ ॥
एष निम्बादिकः ख्यातः पीतः शर्करया युतः ।
हन्ति त्रिदोषमसूरीं ज्वरवीसर्पसम्भवाम् ॥ २० ॥
उत्थिता प्रविशेद्या तु पुनस्तां बाह्यतो नयेत् ॥ २१ ॥
पटोलकुण्डलीमुस्तवृषधन्वयवासकैः ।
भूनिम्बनिम्बकटुकापर्पटैश्च शृतं जलम् ॥ २२ ॥
मसुरीं शमयेदामां पक्वां चैव विशोषयेत् ।
नातः परतरं किञ्चिद्विस्फोटज्वरशान्तये ॥ २३ ॥
पटोलमूलारुणतण्डुलीयकं
पिबेद्धरिद्रामलकल्कसंयुतम् ।
मसूरिकास्फोटविदाहशान्तये
तदेव रोमान्तिवमिज्वरापहम् ॥ २४ ॥
पटोलमूलारुणतण्डुलीयकं
तथैव धात्रीखदिरेण संयुतम् ।
पिबेज्जलं सुक्वथितं सुशीतलं
मसूरिकारोगविनाशनं परम् ॥ २५ ॥
212-a
खदिरत्रिफलारिष्टपटोलामृतवासकैः ।
क्वाथोऽष्टकाङ्गो जयति रोमान्तिकमसूरिकाः ।
कुष्ठवीसर्पविस्फोटकण्ड्वादीनपि तानतः ॥ २६ ॥
अमृतादिकषायस्तु जयेत्पित्तकफात्मिकाम् ।
सौवीरेण तु संपिष्टं मातुलुङ्गस्य केशरम् ॥ २७ ॥
प्रलेपात्पातयत्याशु दाहं चाशु नियच्छति ।
पाददाहं प्रकुरुते पिडका पादसंभवा ॥ २८ ॥
तत्र सेकं प्रशंसन्ति वहुशस्तण्डुलाम्बुना ।
पाककाले तु सर्वास्ता विशोषयति मारुतः ॥ २९ ॥
तस्मात्संबृंहणं कार्यं न तु पथ्यं विशोषणम् ।
गुडूची मधुकं द्राक्षा मोरटं दाडिमैः सह ॥ ३० ॥
पाककाले तु दातव्यं भेषजं गुडसंयुतम् ।
तेन पाकं व्रजत्याशु न च वायुः प्रकुप्यति ॥ ३१ ॥
लिहेद्वा बादरं चूर्णं पाचनार्थं गुडेन तु ।
अनेनाशु विपच्यन्ते वातपित्तकफात्मिकाः ॥ ३२ ॥
212-b
शूलाध्मानपरीतस्य कम्पमानस्य वायुना ।
धन्वमांसरसाः शस्ता ईषत्सैन्धवसंयुताः ॥ ३३ ॥
दाडिमाम्लरसैर्युक्ता यूषाः स्युररुचौ हिताः ।
पिबेदम्भस्तप्तशीतं भावितं खदिराशनैः ॥ ३४ ॥
शौचे वारि प्रयुञ्जीत गायत्रीबहुवारजम् ।
जातीपत्रं समञ्जिष्ठं दार्वीपूगफलं शमीम् ॥ ३५ ॥
धात्रीफलं समधुकं क्वथितं मधुसंयुतम् ।
मुखरोगे कण्ठरोगे गण्डूषार्थं प्रशस्यते ॥ ३६ ॥
अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना ।
मधुकं त्रिफलामूर्वादार्वीत्वङ्नीलमुत्पलम् ॥ ३७ ॥
उशीरलोध्रमञ्जिष्ठाः प्रलेपाश्च्योतने हिताः ।
नश्यन्त्यनेन दृग्जाता मसूर्यो न द्रवन्ति च ॥ ३८ ॥
पञ्चवल्कलचूर्णेन क्लेदिनीमवचूर्णयेत् ।
भस्मना केचिदिच्छन्ति केचिद्गोमयरेणुना ॥ ३९ ॥
क्रिमिपातभयाच्चापि धूपयेच्छरलादिना ।
वेदनादाहशान्त्यर्थं स्रुतानां च विशुद्धये ॥ ४० ॥
सगुग्गुलं वराक्वाथं युञ्ज्याद्वा खरिदाष्टकम् ।
कृष्णाभयारजो लिह्यान्मधुना कण्ठशुद्धये ॥ ४१ ॥
अथाष्टाङ्गावलेहो वा कवडश्चार्द्रकादिभिः ।
पञ्चतिक्तं प्रयुञ्जीत पानाभ्यञ्जनभोजनैः ॥ ४२ ॥
कुर्याद्व्रणविधानं च तैलादीन्वर्जयेच्चिरम् ।
विषघ्नैः सिद्धमन्त्रैश्च प्रसृज्यात्तु पुनः पुनः ।
तथा शोणितसंसृष्टाः काश्चिच्छोणितमोक्षणैः ॥ ४३ ॥
213-a
निशाद्वयोशीरशिरीषमुस्तकैः
सलोध्रभद्रश्रियनागकेशरैः ।
सस्वेदविस्फोटविसर्पकुष्ठ-
दौर्गन्ध्यरोमान्तिहरः प्रदेहः ॥ ४४ ॥
बिम्ब्यतिमुक्तकाऽशोकप्लक्षवेतसपल्लवैः ।
निशि पर्युषितः क्वाथो मसूरीभयनाशनः ॥ ४५ ॥
चैत्रासितभूतदिने रक्तपताकान्विता स्नुहीभवने ।
धवलितकलशन्यस्ता पापरुजो दूरतो धत्ते ॥ ४६ ॥