213-b
तत्राजगल्लिकामामां जलौकाभिरुपाचरेत् ।
शुक्तिसौराष्ट्रिकाक्षारकल्कैश्चालेपयेन्मुहुः ॥ १ ॥
कठिनां क्षारयोगैश्च द्रावयेदजगल्लिकाम् ।
श्लेष्मविद्रधिकल्केन जयेदनुशयीं भिषक् ॥ २ ॥
विवृतामिन्द्रवृद्धां च गर्दभीं जालगर्दभम् ।
इरिवेल्लिकां गन्धनामां जयेत्पित्तविसर्पवत् ॥ ३ ॥
मधुरौषधसिद्धेन सर्पिषा शमयेद्व्रणान् ।
रक्तावसेकैर्बहुभिः स्वेदनैरपतर्पणैः ॥ ४ ॥
जयेद्विदारिकां लेपैः शिग्रुदेवद्रुमोद्भवैः ।
पनसिकां कच्छपिकामनेन विधिना भिषक् ॥ ५ ॥
साधयेत्कठिनानन्याञ्शोथान्दोषसमुद्भवान् ।
अन्त्रालजीं कच्छपिकां तथा पाषाणगर्दभम् ॥ ६ ॥
सुरदारुशिलाकुष्ठैः स्वेदयित्वा प्रलेपयेत् ।
कफमारुतशोथघ्नो लेपः पाषाणगर्दभे ॥ ७ ॥