233-a
जम्बूकस्य तु मांसेन कटुतैलं विपाचयेत् ।
तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ॥ ३६ ॥
निशागन्धपले पक्वं कटुतैलं पलाष्टकम् ।
धूस्तूरपत्रजरसे कर्णनाडीजिदुत्तमम् ॥ ३७ ॥
१०अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत् ।
ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत् ॥ ३८ ॥
कर्णपाकस्य भैषज्यं कुर्यात्क्षतविसर्पवत् ।
नाडीस्वेदोऽथ वमनं धूममूर्ध्वविरेचनम् ॥ ३९ ॥
विधिश्च कफहा सर्वः कर्णकण्डूं व्यपोहति ।
क्लेदयित्वा तु तैलेन स्वेदेन प्रविलाप्य च ॥ ४० ॥
शोधयेत्कर्णगूथं तु भिषक् सम्यक् शलाकया ।
निर्गुण्डीस्वरसस्तैलं सिन्धुधूमरजो गुडः ॥ ४१ ॥
पूरणात्पूतिकर्णस्य शमनो मधुसंयुतः ।
जातिपत्ररसे तैलं विपक्वं पूतिकर्णजित् ॥ ४२ ॥
वरुणार्ककपित्थाम्रजम्बूपल्लवसाधितम् ।
पूतिकर्णापहं तैलं जातीपत्ररसेन वा ॥ ४३ ॥
सूर्यावर्तकस्वरसं सिन्धुवाररसस्तथा ।
लाङ्गलीमूलजरसं त्र्यूषणेनावचूर्णितम् ॥ ४४ ॥
पूरयेत्क्रिमिकर्णं तु जन्तूनां नाशनं परम् ।
क्रिमिकर्णकनाशार्थं क्रिमिघ्नं योजयेद्विधिम् ॥ ४५ ॥
वार्ताकुधूमश्च हितः सर्षपस्नेह एव च ।
हलिसूर्यावर्तव्योषस्वरसेनातिपूरिते ॥ ४६ ॥