252-a
४१रसाञ्जनं सर्जरसो जातीपुष्पं मनः शिला ॥ २२३ ॥
समुद्रफेनो लवणं गैरिकं मरिचानि च ।
एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मनि ॥ २२४ ॥
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणां च प्ररोहणम् ।
मस्तकास्थिचुलुक्यास्तु तुषोदलवणान्वितम् ॥ २२५ ॥
ताम्रपात्रेऽञ्जनं घृष्टं पिल्ले प्रक्लिन्नवर्त्मनि ।
ताम्रपात्रे गुहामूलं सिन्धूत्थं मरिचान्वितम् ॥ २२६ ॥
आरणालेन संघृष्टमञ्जनं पिल्लनाशनम् ।
हरिद्रे त्रिफलां लोध्रं मधुकं रक्तचन्दनम् ॥ २२७ ॥
भृङ्गराजरसे पिष्ट्वा घर्षयेल्लोहभाजने ।
तथा ताम्रे च सप्ताहं कृत्वा वर्तिं रजोऽथवा ॥ २२८ ॥
पिच्चिटी धूमदर्शी च तिमिरोपहतेक्षणः ।
प्रातर्निश्यञ्जयेन्नित्यं सर्वनेत्रामयापहम् ॥ २२९ ॥
मञ्जिष्ठामधुकोत्पलोदधिकफ-
त्वक्सेव्यगोरोचना-
मांसीचन्दनशङ्खपत्रगिरिमृ-
त्तालीसपुष्पाञ्जनैः ।
सर्वैरेव समांशमञ्जनमिदं
शस्तं सदा चक्षुषोः
कण्डूक्लेदमलाश्रुशोणितरुजा-
पिल्लार्मशुक्रापहम् ॥ २३० ॥