Adhikāra 59

वातिके शिरसो रोगे स्नेहस्वेदान्सनावनान् ।
पानान्नमुपहारांश्च कुर्याद्वातामयापहान् ॥ १ ॥
कुष्टमेरण्डतैलं च लेपात्काञ्जिकपेषितम् ।
शिरोर्तिं नाशयत्याशु पुष्पं वा मुचुकुन्दजम् ॥ २ ॥
पञ्चमूलीशृतं क्षीरं नस्ये दद्याच्छिरोगदे ।
आशिरोव्यायतं चर्म कृत्वाष्टाङ्गुलमुच्छ्रितम् ॥ ३ ॥
253-b
तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत् ।
निश्चलस्योपविष्टस्य तैलैरुष्णैः प्रपूरयेत् ॥ ४ ॥
धारयेदारुजःशान्तेर्यामं यामार्धमेव वा ।
शिरोबस्तिर्जयत्येष शिरोरोगं मरुद्भवम् ॥ ५ ॥
हनुमन्याक्षिकर्णार्तिमर्दितं मूर्धकम्पनम् ।
तैलेनापूर्य मूर्धानं पञ्चमात्राशतानि च ॥ ६ ॥
तिष्ठेच्छ्लेष्मणि पित्तेऽष्टौ दशवाते शिरोगदी ।
एक एव विधिः कार्यस्तथा कर्णाक्षिपूरणे ॥ ७ ॥
पैत्ते घृतं पयःसेकाः शीतलेपाः सनावनाः ।
जीवनीयानि सर्पींषि पानान्नं चापि पित्तनुत् ॥ ८ ॥
पित्तात्मके शिरोरोगे स्निग्धं सम्यग्विरेचयेत् ।
मृद्वीकात्रिफलेक्षूणां रसैः क्षीरैर्घृतैरपि ॥ ९ ॥
शतधौतघृताभ्यङ्गः शीतवातादिसेवनम् ।
शीतस्पर्शाश्च संसेव्याः सदा दाहार्तिशान्तये ॥ १० ॥
चन्दनोशीरयष्ट्याह्वबलाव्याघ्रीनखोत्पलैः ।
क्षीरपिष्टैः प्रदेहः स्याच्छृतैर्वा परिषेचनम् ॥ ११ ॥
मृणालबिसशालूकचन्दनोत्पलकेशरैः ।
स्निग्धशीतैः शिरो दिह्यात्तद्वदामलकोत्पलैः ॥ १२ ॥
254-a
यष्ट्याह्वचन्दनानन्ताक्षीरसिद्धं घृतं हितम् ।
नावनं शर्कराद्राक्षामधुकैर्वापि पित्तजे ॥ १३ ॥
त्वक्पत्रशर्करापिष्टा नावनं तण्डुलाम्बुना ।
क्षीरसर्पिर्हितं नस्यं रसा वा जाङ्गलाः शुभाः ॥ १४ ॥
रक्तजे पित्तवत्सर्वं भोजनालेपसेचनम् ।
शीतोष्णयोश्च व्यत्यासो विशेषो रक्तमोक्षणम् ॥ १५ ॥
कफजे लङ्घनं स्वेदो रूक्षोष्णैः पाचनात्मकैः ।
तीक्ष्णावपीडा धूमाश्च तीक्ष्णाश्च कवला हिताः ॥ १६ ॥
अच्छं च पाययेत्सर्पिः पुराणं स्वेदयेत्ततः ।
मधूकसारेण शिरः स्विन्नं चास्य विरेचयेत् ॥ १७ ॥
कृष्णाब्दशुण्ठीमधुकशताह्वोत्पलपाकलैः ।
जलपिष्टैः शिरोलेपः सद्यः शूलनिवारणः ॥ १८ ॥
देवदारु नतं कुष्टं नलदं विश्वभेषजम् ।
लेपः काञ्जिकसंपिष्टस्तैलयुक्तः शिरोऽर्तिनुत् ॥ १९ ॥
254-b
सन्निपातभवे कार्या दोषत्रयहरी क्रिया ।
सर्पिःपानं विशेषेण पुराणं त्वादिशन्ति हि ॥ २० ॥
त्रिकटुकपुष्कररजनी
रास्नासुरदारुतुरगगन्धानाम् ।
क्वाथः शिरोऽर्तिजालं
नासापीतो निवारयति ॥ २१ ॥
नागरकल्कमिश्रं क्षीरं नस्येन योजितं पुंसाम् ।
नानादोषोद्भूतां शिरोरुजं हन्ति तीव्रतराम् ॥ २२ ॥
नातोत्पलं चन्दनकुष्ठयुक्तं
शिरोरुजायां सघृतः प्रदेहः ।
प्रपौण्डरीकं सुरदारु कुष्टं
यष्ट्याह्वमेलाकमलोत्पले च ।
शिरोरुजायां सघृतः प्रदेहो
लोहैरकापद्मकचोरकैश्च ॥ २३ ॥
शताह्वैरण्डमूलं च ग्रावव्याघ्रीफलैः शृतम् ।
तैलं नस्यं मरुच्छ्लेष्मतिमिरोर्ध्वगदापहम् ॥ २४ ॥
255-a
जीवकर्षभकौ द्राक्षासितायष्टीबलोत्पलैः ।
तैलं नस्यं पयःपक्वं वातपित्तशिरोगदे ॥ २५ ॥
जीवकर्षभकौ द्राक्षा मधूकं मधुकं बला ।
नीलोत्पलं चन्दनं च विदारी शर्करा तथा ॥ २६ ॥
तैलप्रस्थं पचेदेभिः शनैः पयसि पड्गुणे ।
जाङ्गलस्य तु मांसस्य तुलार्धस्य रसेन तु ॥ २७ ॥
सिद्धमेतद्भवेन्नस्यं तैलमर्धावभेदकम् ।
बाधिर्यं कर्णशूलं च तिमिरं गलशुण्डिकाम् ॥ २८ ॥
वातिकं पैत्तिकं चैव शीर्षरोगं नियच्छति ।
दन्तचालं शिरःशूलमर्दितं चापकर्पति ॥ २९ ॥
एरण्डमूलं तगरं शताह्वा
जीवन्ति रास्ना सहसैन्धवं च ।
भृङ्गं विडङ्गं मधुयष्टिका च
विश्वौषधं कृष्णतिलस्य तैलम् ॥ ३० ॥
आजं पयस्तैलविमिश्रितं च
चतुर्गुणे भृङ्गरसे विपक्वम् ।
षड्बिन्दवो नासिकया विधेयाः
शीघ्रं निहन्युः शिरसो विकारान् ॥ ३१ ॥
च्युतांश्च केशांश्चलितांश्च दन्तान्
दुर्वद्धमूलांश्च दृढीकरोति ।
255-b
सुपर्णदृष्टिप्रतिमं च चक्षु-
र्बाह्वोर्बलं चाभ्यधिकं ददाति ॥ ३२ ॥
क्षयजे क्षयमासाद्यं कर्तव्यो बृंहणो विधिः ।
पाने नस्ये च सर्पिः स्याद्वातघ्नैर्मधुरैः शृतम् ॥ ३३ ॥
क्रिमिजे व्योषनक्ताह्वशिग्रुबीजैश्च नावनम् ।
अजामूत्रयुतं नस्यं क्रिमिजे क्रिमिजित्परम् ॥ ३४ ॥
अपामार्गफलव्योषनिशाक्षारकरामठैः ।
सविडङ्गं शृतं मूत्रे तैलं नस्यं क्रिमिं जयेत् ॥ ३५ ॥
नागरं सगुडं विश्वं पिप्पली वा ससैन्धवा ।
भुजस्तम्भादिरोगेषु सर्वेषूर्ध्वगदेषु च ॥ ३६ ॥
सूर्यावर्ते विधातव्यं नस्यकर्मादि भेषजम् ।
पाययेत्सगुडं सर्पिर्घृतपूरांश्च भक्षयेत् ॥ ३७ ॥
सूर्यावर्ते शिरोवेधो नावनं क्षीरसर्पिषा ।
हितः क्षीरघृताभ्यासस्ताभ्यां चैव विरेचनम् ।
क्षीरपिष्टैस्तिलैः स्वेदो जीवनीयैश्च शस्यते ॥ ३८ ॥
सशर्करं कुङ्कुममाज्यभृष्टं
नस्यं विधेयं पवनासृगुत्थे ।
भ्रूशङ्खकर्णाक्षिशिरोर्धशूले
दिनाभिवृद्धिप्रभवे च रोगे ॥ ३९ ॥
कृतमालपल्लवरसे
खरमञ्जरिकल्कसिद्धनवनीतम् ।
नस्येन जयति नियतं
सूर्यावर्तं सुदुर्वारम् ॥ ४० ॥
256-a
दशमूलीकषायं तु सर्पिःसैन्धवसंयुतम् ।
नस्यमर्धावभेदघ्नं सूर्यावर्तशिरोऽर्तिनुत् ॥ ४१ ॥
शिरीषमूलकफलैरवपीडं च योजयेत् ।
अवपीडो हितो वा स्याद्वचापिप्पलीभिः शृतः ॥ ४२ ॥
जाङ्गलानि च मांसानि कारयेदुपनाहनम् ।
तेनास्य शाम्यति व्याधिः सूर्यावर्तः सुदारुणः ।
एष एव विधिः कृत्स्नः कार्यश्चार्धावभेदके ॥ ४३ ॥
शारिवोत्पलकुष्टानि मधुकं चाम्लपेषितम् ।
सर्पिस्तैलयुतो लेपः सूर्यावर्तार्धभेदयोः ॥ ४४ ॥
पिवेत्सशर्करं क्षीरं नीरं वा नारिकेलजम् ।
सुशीतं वापि पानीयं सर्पिर्वा नस्ततस्तयोः ॥ ४५ ॥
अनन्तवाते कर्तव्यः सूर्यावर्तहितो विधिः ।
शिरावेधश्च कर्तव्योऽनन्तवातप्रशान्तये ॥ ४६ ॥
आहारश्च विधातव्यो वातपित्तविनाशनः ।
मधुमस्तुकसंयावहविःपूरैश्च यः क्रमः ॥ ४७ ॥
सूर्यावर्ते हितं यत्तच्छङ्खके स्वेदवर्जितम् ।
क्षीरसर्पिः प्रशंसन्ति नस्तपानं च शङ्खके ॥ ४८ ॥
256-b
शतावरीं कृष्णतिलान्मधुकं नीलमुत्पलम् ।
मूर्वां पुनर्नवां चापि लेपं साध्ववतारयेत् ॥ ४९ ॥
शीततोयावसेकांश्च क्षीरसेकांश्च शीतलान् ।
कल्कैश्च क्षीरिवृक्षाणां शङ्खकस्य प्रलेपनम् ॥ ५० ॥
क्रौञ्चकादम्बहंसानां शरार्याः कच्छपस्य च ।
रसैः संविहितस्याथ तस्य शङ्खकसन्धिजाः ॥ ५१ ॥
ऊर्ध्वं तिस्रः शिराः प्राज्ञो भिन्द्यादेव न ताडयेत् ।
शिरःकम्पेऽमृतारास्नाबलास्नेहसुगन्धिभिः ॥ ५२ ॥
स्नेहस्वेदादि वातघ्नं शिरोबस्तिश्च शस्यते ।
257-a
१०यष्टीमधुबलारास्नादशमूलाम्बुसाधितम् ।
मधुरैश्च घृतं सिद्धमूर्ध्वजत्रुगदापहम् ॥ ५३ ॥
११दशमूलबलारास्नामधुकैस्त्रिपलैः सह ।
मयूरं पक्षपित्तान्त्रशकृत्पादास्यवर्जितम् ॥ ५४ ॥
जले पक्त्वा घृतप्रस्थं तस्मिन्क्षीरसमं पचेत् ।
मधुरैः कार्षिकैः कल्कैः शिरोरोगार्दितापहम् ॥ ५५ ॥
कर्णनासाक्षिजिह्वास्यगलरोगविनाशनम् ।
मयूराद्यमिदं ख्यातमूर्ध्वजत्रुगदापहम् ॥ ५६ ॥
आखुभिः कुक्कुटैर्हंसैः शशैश्चापि हि बुद्धिमान् ।
कल्केनानेन विपचेत्सर्पिरूर्ध्वगदापहम् ॥ ५७ ॥
दशमूलादिना तुल्यो मयूर इह गृह्यते ।
अन्ये त्वाकृतिमानेन मयूरग्रहणं विदुः ॥ ५८ ॥
१२प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः ।
सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन वा ।
सर्वानूर्ध्वगदान्हन्ति पलितानि च शीलितम् ॥ ५९ ॥
257-b
१३शतं मयूरमांसस्य दशमूलबलातुलाम् ।
द्रोणेऽम्भसः पचेत्क्षुण्वा तस्मिन्पादस्थिते ततः ॥ ६० ॥
निषिव्य पयसो द्रोणं पचेत्तत्र घृताढकम् ।
प्रपौण्डरीकवर्गोक्तैर्जीवनीयैश्च भेषजैः ॥ ६१ ॥
मेधाबुद्धिस्मृतिकरमूर्ध्वजत्रुगदापहम् ।
मायूरमेतन्निर्दिष्टं सर्वानिलहरं परम् ॥ ६२ ॥
मन्याकर्णशिरोनेत्ररुजापस्मारनाशनम् ।
विषवातामयश्वासविषमज्वरकासनुत् ॥ ६३ ॥