Adhikāra 61

260-a
योनिव्यापत्सु भूयिष्ठं शस्यते कर्म वातजित् ।
बस्त्यभ्यङ्गपरिषेकप्रलेपाः पिचुधारणम् ॥ १ ॥
वचोपकुञ्चिकाजातीकृष्णावृषकसैन्धवम् ।
अजमोदां यवक्षारं चित्रकं शर्करान्वितम् ॥ २ ॥
पिष्ट्वा प्रसन्नयालोड्य खादेत्तद्घृतभर्जितम् ।
योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये ॥ ३ ॥
गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम् ।
नतवार्ताकिनीकुष्ठसैन्धवामरदारुभिः ॥ ४ ॥
तैलात्प्रसाधिताद्धार्यः पिचुर्योनौ रुजापहः ।
पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः ॥ ५ ॥
शीताः पित्तहराः कार्याः स्नेहनार्थं घृतानि च ।
योन्यां बलासदुष्टायां सर्वरुक्षोष्णमौषधम् ॥ ६ ॥
पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः ।
वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी ॥ ७ ॥
हिंस्राकल्कं तु वातार्ता कोष्णमभ्यज्य धारयेत् ।
पञ्चवल्कस्य पित्तार्ता श्यामादीनां कफोत्तरा ॥ ८ ॥
मूषिकामांससंयुक्तं तैलमातपभावितम् ।
अभ्यङ्गाद्धन्ति योन्यर्शः स्वेदस्तन्मांससैन्धवैः ॥ ९ ॥
260-b
गोपित्ते मत्स्यपित्ते वा क्षौमं त्रिःसप्तभावितम् ।
मधुना किण्वचूर्णं वा दद्यादचरणापहम् ॥ १० ॥
स्रोतसां शोधनं शोथकण्डूक्लेदहरं च तत् ।
कामिन्याः पूतियोन्याश्च कर्तव्यः स्वेदनो विधिः ॥ ११ ॥
क्रमः कार्यस्ततः स्नेहपिचुभिस्तर्पणं भवेत् ।
शल्लकीजिङ्गिनीजम्बुधवत्वक्पञ्चवल्कलैः ॥ १२ ॥
कषायैः साधितः स्नेहः पिचुः स्याद्विप्लुतापहः ।
कर्णिन्यां वर्तिका कुष्ठपिप्पल्यर्काग्रसैन्धवैः ॥ १३ ॥
बस्तमूत्रकृता धार्या सर्वं च श्लेष्मनुद्धितम् ।
त्रैवृतं स्नेहनं स्वेद उदावर्तानिलार्तिषु ।
तदेव च महायोन्यां स्रस्तायां तु विधीयते ॥ १४ ॥
आखोर्मांसं सपदि बहुधा खण्डखण्डीकृतं यत् ।
तैले पाच्यं द्रवति नियतं यावदेतन्न सम्यक् ।
तत्तैलाक्तं वसनमनिशं योनिभागे दधाना ।
हन्ति व्रीडाकरभगफलं नात्र सन्देहबुद्धिः ॥ १५ ॥
261-a
शतपुष्पातैललेपाद्बदरीदलजात्तथा ।
पेटिकामूललेपाच्च योनिर्भिन्ना प्रशाम्यति ॥ १६ ॥
सुषवीमूललेपेन प्रविष्टान्तर्बहिर्भवेत् ।
योनिर्मूषरसाभ्यङ्गान्निःसृता प्रविशेदपि ॥ १७ ॥
लोध्रतुम्बीफलालेपो योनिदार्ढ्यं करोति च ।
वेतसमूलनिःक्वाथक्षालनेन तथैव च ॥ १८ ॥
मूषिकावागुलिवसाम्रक्षणं योनिदार्ढ्यदम् ।
वचानीलोत्पलं कुष्ठं मरिचानि तथैव च ॥ १९ ॥
अश्वगन्धा हरिद्रा च गाढीकरणमुत्तमम् ॥ २० ॥
मदनफलमधुकर्पूरपूरितं भवति कामिनीजनस्य ।
विगलितयौवनस्य च वराङ्गमतिगाढं सुकुमारम् ॥ २१ ॥
पञ्चपल्लवयष्ट्याह्वमालतीकुसुमैर्घृतम् ।
रविपक्वमन्यथा वा योनिगन्धविनाशनम् ॥ २२ ॥
इक्ष्वाकुबीजदन्तीचपलागुडमदनकिण्वयष्ट्याह्वैः ।
सस्नुक्क्षीरैर्वर्तिर्योनिगता कुसुमसञ्जननी ॥ २३ ॥
सकाञ्जिकं जवापुष्पं भृष्टं ज्योतिष्मतीदलम् ।
दूर्वापिष्टं च सम्प्राश्य वनिता त्वार्तवं लभेत् ॥ २४ ॥
धात्र्यञ्जनाभयाचूर्णं तोयपीतं रजो हरेत् ।
शेलुच्छदमिश्रपिष्टं भक्षणं च तदर्थकृत् ॥ २५ ॥
पुष्पोद्धृतं लक्षणायाश्चक्राङ्गायास्तु कन्यया ।
261-b
पिष्टं मूलं दुग्धघृतपीतमृतौ तु पुत्रदम् ॥ २६ ॥
क्वाथेन हयगन्धायाः साधितं सघृतं पयः ।
ऋतुस्नाता बाला पीत्वा गर्भं धत्ते न संशयः ॥ २७ ॥
पिप्पल्यः शृङ्गवेरं च मरिचं केशरं तथा ।
घृतेन सह पातव्यं वन्ध्यापि लभते सुतम् ॥ २८ ॥
स्वर्णस्य रूप्यकस्य च
चूर्णे ताम्रस्य चाज्यसंमिश्रे ।
पीते शुद्धे क्षेत्रे
भेषजयोगाद्भवेद्गर्भः ॥ २९ ॥
कृत्वा शुद्धौ स्नानं
विलङ्घ्य दिवसान्तरे ततः प्रातः ।
स्नात्वा द्विजाय भत्तया
सम्पूज्य तथैव लोकनाथेशम् ॥ ३० ॥
श्वेतबलाङ्घ्रिकयष्टीं
कर्षं कर्षं पलं तु शर्करायाः ।
पिष्ट्वैकवर्णजीवित
वत्साया गोस्तु दुग्धेन ॥ ३१ ॥
समधिकघृतेन पीतं
नात्र दिने देयमन्नमन्यच्च ।
262-a
क्षुधिते सदुग्धमन्नं
दद्यादापुरुषसन्निधेस्तस्याः ॥ ३२ ॥
समदिवसे शुभयोगे
दक्षिणपार्श्वावलम्बिनी धीरा ।
त्यक्तस्त्र्यन्तरसङ्ग-
प्रहृष्टमनसोऽतिवृद्धधातोश्च ।
पुरुषस्य सङ्गमात्रा-
ल्लभते पुत्रं ततो नियतम् ॥ ३३ ॥
गोष्ठजातवटकस्य प्रागुक्तशाखजे शुभे ।
माषौ द्वौ च तथा गौरसर्षपौ दधियोजितौ ।
पुष्पापीतौ द्रुतापन्नगर्भायाः पुत्रकारकौ ॥ ३४ ॥
कानकान्राजतान्वापि लौहान्पुरुषकानमून् ।
ध्याताग्निवर्णान्पयसो दध्नो वाप्युदकस्य वा ।
क्षिप्त्वाञ्जलौ पिबेत्पुष्ये गर्भे पुत्रत्वकारकान् ॥ ३५ ॥
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला ।
मेदा पयस्या काकोली मूलं चैवाश्वगन्धजम् ॥ ३६ ॥
262-b
अजमोदा हरिद्रे द्वे हिङ्गुकं कटुरोहिणी ।
उत्पलं कुमुदं द्राक्षा काकोल्यौ चन्दनद्वयम् ॥ ३७ ॥
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत् ।
शतावरीरसक्षीरं घृताद्देयं चतुर्गुणम् ॥ ३८ ॥
सर्पिरेतन्नरः पीत्वा नित्यं स्त्रीषु वृषायते ।
पुत्राञ्जनयते नारी मेधाढ्यान्प्रियदर्शनान् ॥ ३९ ॥
या चैव स्थिरगर्भा स्याद्या वा जनयते मृतम् ।
अल्पायुषं वा जनयेद्या च कन्यां प्रसूयते ॥ ४० ॥
योनिदोषे रजोदोषे परिस्रावे च शस्यते ।
प्रजावर्धनमायुष्यं सर्वग्रहनिवारणम् ॥ ४१ ॥
नाम्ना फलघृतं ह्येतदश्विभ्यां परिकीर्तितम् ।
अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः ॥ ४२ ॥
जीवद्वत्सैकवर्णाया घृतमत्र प्रशस्यते ।
आरण्यगोमयेनापि वह्निज्वाला प्रदीयते ॥ ४३ ॥
सहचरे द्वे त्रिफलां गुडूचीं सपुनर्नवाम् ।
शुकनासां हरिद्रे द्वे रास्नां मेदां शतावरीम् ॥ ४४ ॥
कल्कीकृत्य घृतप्रस्थं पचेत्क्षीरचतुर्गुणम् ।
तत्सिद्धं प्रपिबेन्नारी योनिशूलप्रपीडिता ॥ ४५ ॥
पिण्डिता चलिता या च निःसृता विवृत्रा च या ।
पिण्डयोनिस्तु विस्रस्ता षण्डयोनिश्च या स्मृता ॥ ४६ ॥
263-a
प्रपद्यन्ते तु ताः स्थानं गर्भं गृह्णन्ति चासकृत् ।
एतत्फलघृतं नाम योनिदोषहरं परम् ॥ ४७ ॥
सिद्धार्थकं वचा ब्राह्मी शङ्खपुष्पी पुनर्नवा ।
पयस्यामययष्ट्याह्वकटुकैलाफलत्रयम् ॥ ४८ ॥
शारिवे रजनी पाठा भृङ्गदारु सुवर्चला ।
मञ्जिष्ठा त्रिफला श्यामा वृषपुष्पं सगैरिकम् ॥ ४९ ॥
धीमान्पक्त्वा घृतप्रस्थं सम्यङ्मात्राभिमन्त्रितम् ।
द्विमासगर्भिणी नारी षण्मासात् न प्रयोजयेत् ॥ ५० ॥
सर्वाङ्गं जनयेत्पुत्रं शूरं पण्डितमानिनम् ।
जडगद्गदमूकत्वं पानादेवापकर्षति ॥ ५१ ॥
सप्तरात्रप्रयोगेण नरः श्रुतिधरो भवेत् ।
नाग्निर्दहति तद्वेश्म न वज्रं हन्ति न ग्रहाः ॥ ५२ ॥
न तत्र म्रियते बालो यत्रास्ते सोमसङ्गितः ।
वन्ध्यापि लभते पुत्रं सर्वामयविवर्जितम् ।
योनिदुष्टाश्च या नार्यो रेतोदुष्टाश्च ये नराः ॥ ५३ ॥
अस्य प्रभावात्कुक्षिस्थः स्फुटवाग्व्याहरत्यपि ।
द्राक्षा परूषकाश्मर्यौ फलत्रयमुदाहृतम् ॥ ५४ ॥
“ओं नमो महाविनायकाया
मृतं रक्ष मम फलसिद्धिं
देहि रुद्रवचनेन स्वाहा”
सप्तदूर्वाभिमन्त्रितम् ॥ ५५ ॥
263-b
१०नीलोत्पलोशीरमधूकयष्टी
द्राक्षाविदारीकुशपञ्चमूलैः ।
स्याज्जीवनीयैश्च घृतं विपक्वं
शतावरीकारसदुग्धमिश्रम् ॥ ५६ ॥
तच्छर्करापादयुतं प्रशस्त-
मसृग्दरे मारुतरक्तपित्ते ।
क्षीणे बले रेतसि संप्रनष्टे
कृच्छ्रे च रक्तप्रभवे च गुल्मे ॥ ५७ ॥
११शतावरीमूलतुलाश्चतस्रः संप्रपीडयेत् ।
रसेन क्षीरतुल्येन पचेत्तेन घृताढकम् ॥ ५८ ॥
जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः ।
पिष्टैः प्रियालैश्चाक्षांशैर्द्वियष्टीमधुकैर्भिषक् ॥ ५९ ॥
सिद्धशीते च मधुनः पिप्पल्याश्चाष्टकं पलम् ।
दत्त्वा दशपलं चात्र सितायास्तद्विमिश्रितम् ॥ ६० ॥
ब्राह्मणान्प्राशयेत्पूर्वं लिह्यात्पाणितलं ततः ।
योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं च तत् ॥ ६१ ॥
264-a
क्षतक्षयं रक्तपित्तं कासं श्वासं हलीमकम् ।
कामलां वातरक्तं च विसर्पं हृच्छिरोग्रहम् ।
उन्मादादीनपस्मारान्वातपित्तात्मकाञ्जयेत् ॥ ६२ ॥
दग्ध्वा शङ्खं क्षिपेद्रम्भास्वरसे तत्तु पेषितम् ।
तुल्यालं लेपतो हन्ति रोमगुह्यादिसम्भवम् ॥ ६३ ॥
रक्ताञ्जनापुच्छचूर्णयुक्तं तैलं तु सार्षपम् ।
सप्ताहं व्युषितं हन्ति मूलाद्रोमाण्यसंशयः ।
कुसुम्भतैलाभ्यङ्गो वा रोम्णामुत्पाटितेऽन्तकृत् ॥ ६४ ॥
१२आरग्वधमूलपलं कर्षद्वितयं च शङ्खचूर्णस्य ।
हरितालस्य च खरजे मूत्रप्रस्थे कटुतैलं पक्वम् ॥ ६५ ॥
तैलं तदिदं शङ्खहरितालचूर्णितं लेपात् ।
निर्मूलयति च रोमाण्यन्येषां सम्भवो नैव ॥ ६६ ॥
कर्पूरभल्लातकशङ्खचूर्णं
क्षारो यवानां च मनःशिला च ।
तैलं विपक्वं हरितालमिश्रं
रोमाणि निर्मूलयति क्षणेन ॥ ६७ ॥
264-b
१३शुक्तिशम्बूकशङ्खानां दीर्घवृन्तात्समुष्ककात् ।
दग्ध्वा क्षारं समादाय खरमूत्रेण गालयेत् ॥ ६८ ॥
क्षारार्धमागं विपचेत्तैलं च सार्षपं वुधः ।
इदमन्तः पुरे देयं तैलमात्रेयपूजितम् ॥ ६९ ॥
बिन्दुरेकः पतेद्यत्र तत्र रोमापुनर्भवः ।
मदनादिव्रणे देयमश्विभ्यां च विनिर्मितम् ॥ ७० ॥
अर्शसां कुष्ठरोगाणां पामादद्रुविचर्चिकाम् ।
क्षारतैलमिदं श्रेष्ठं सर्वक्लेदहरं परम् ॥ ७१ ॥