Adhikāra 62

मधुकं शाकबीजं च पयसा सुरदारु च ।
अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी ॥ १ ॥
वृक्षादनी पयस्या च तथैवोत्पलशारिवा ।
अनन्ता शारिवा रास्ना पद्मा मधुकमेव च ॥ २ ॥
बृहतीद्वयकाश्मर्यक्षीरिशुङ्गास्त्वचो घृतम् ।
पृथक्पर्णी बला शिग्रु श्वदंष्ट्रा मधुयष्टिका ॥ ३ ॥
शृङ्गाटकं बिसं द्राक्षा कशेरु मधुकं सिता ।
मासेषु सप्त योगाः स्युरर्धश्लोकास्तु सप्तसु ॥ ४ ॥
यथाक्रमं प्रयोक्तव्या गर्भस्रावे पयोऽन्विताः ।
265-a
कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धिकाः ॥ ५ ॥
मूलानि क्षीरसिद्धानि दापयेद्भिषगष्टमे ।
नवमे मधुकानन्तापयस्याशारिवाः पिबेत् ॥ ६ ॥
पयस्तु दशमे शुण्ठ्या शृतशीतं प्रशस्यते ।
सक्षीरा वा हिता शुण्ठी मधुकं देवदारु च ॥ ७ ॥
एवमाप्यायते गर्भस्तीव्रा रुक् चोपशाम्यति ।
कुशकाशोरुबूकानां मूलैर्गोक्षुरकस्य च ।
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलनुत्परम् ॥ ८ ॥
कशेरुशृङ्गाटकजीवनीय-
पद्मोत्पलैरण्डशतावरीभिः ।
सिद्धं पयः शर्करया विमिश्रं
संस्थापयेद्गर्भमुदीर्णशूलम् ॥ ९ ॥
कशेरुशृङ्गाटकपद्मकोत्पलं
समुद्गपर्णीमधुकं सशर्करम् ।
सशूलगर्भस्रुतिपीडिताङ्गना
पयोविमिश्रं पयसान्नभुक् पिबेत् ॥ १० ॥
गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम् ।
सितामधुककाश्मर्यैर्हितमुत्थापने पयः ॥ ११ ॥
गर्भशोषे त्वामगर्भाः प्रसहाश्च सदा हिताः ।
265-b
पाठा लाङ्गलिसिंहास्यमयूरकजटैः पृथक् ॥ १२ ॥
नाभिबस्तिभगालेपात्सुखं नारी प्रसूयते ।
परूषकस्थिरामूललेपस्तद्वत्पृथक्पृथक् ॥ १३ ॥
वासामूले ध्रुवं तद्वत्कटिवद्धे सूते द्रुतम् ।
पाठायास्तु शिफां योनौ या नारी संप्रधारयेत् ॥ १४ ॥
उरःप्रसवकाले च सा सुखेन प्रसूयते ।
तुषाम्बुपरिपिष्टेन मूलेन परिलेपयेत् ॥ १५ ॥
लाङ्गल्याश्चरणौ सूते क्षिप्रमेतेन गर्भिणी ।
आटरूषकमूलेन नाभिबस्तिभगालेपः कर्तव्यः ॥ १६ ॥
तालतरूद्भवमूले मुक्तकच्छे धृते पुंसाम् ।
गृहाम्बुना गेहधूमपानं गर्भापकर्षणम् ॥ १७ ॥
मातुलुङ्गस्य मूलानि मधुकं मधुसंयुतम् ।
घृतेन सह पातव्यं सुखं नारी प्रसूयते ॥ १८ ॥
पुटदग्धसर्पकञ्चुक-
मसृणमसी कुसुमसारसहिताञ्जिताक्षी ।
झटिति विशल्या जायेत
गर्भवती मूढगर्भापि ॥ १९ ॥
266-a
गृहाम्बुना हिङ्गुसिन्धुपानं गर्भापकर्षणम् ।
इहामृतं च सोमश्च चित्रभानुश्च भामिनि ।
उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते ॥ २० ॥
इदममृतमपां समुद्धृतं वै-
भवलघुगर्भमिमं विमुञ्चतु स्त्री ।
तदनलपवनार्कवासवास्ते
सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ॥ २१ ॥
मुक्ताः पाशा विपाशाश्च मुक्ताः सूर्येण रश्मयः ।
मुक्तः सर्वभयाद्गर्भ एह्येहि मारिच स्वाहा ॥ २२ ॥
जलं च्यवनमन्त्रेण सप्तवाराभिमन्त्रितम् ।
पीत्वा प्रसूयते नारी--
दृष्ट्वा चोभयत्रिंशकम् ॥ २३ ॥
तथोभयपञ्चदशदर्शनं सुखसूतिकृत् ।
नांरी ऋतुवसुभिः सह पक्षदिगष्टादशभिरेव च ॥ २४ ॥
अर्कभुवनाब्धिसहितैरुभयत्रिंशकमिदमाश्चर्यम् ।
वसुगुणाब्ध्येकबाणनवषट्सप्तयुगैः क्रमात् ॥ २५ ॥
सर्वं पञ्चदशद्विस्तु त्रिंशकं नवकोष्ठके ।
कटुतुम्ब्यहिनिर्मोककृतवेधनसर्षपैः ॥ २६ ॥
कटुतैलान्वितो धूमो योनेः पातयतेऽमराम् ।
कचवेष्टितयाङ्गुल्या घृष्टे कण्ठे सुखं पतत्यमरा ॥ २७ ॥
266-b
एरण्डस्य वनेः? काको गङ्गातीरमुपागतः ।
इतः पिबति पानीयं विशल्या गर्भिणी भवेत् ॥ २८ ॥
अनेन सप्तधामन्त्र्य जलं देयं विशल्यकम् ॥ २९ ॥
मूलेन लाङ्गलिक्या वा संलिप्ते पाणिपादे च ।
अमरापातनं मद्यैः पिप्पल्यादिरजः पिबेत् ॥ ३० ॥
गरीमदनदहनमूलं चिरजमपि ।
गर्भं मृतममृतं वा निपातयति ॥ ३१ ॥
शालिमूलाक्षमात्रं वा मूत्रेणाम्लेन वान्वितम् ।
उपकुञ्चिकां पिप्पलीं च मदिरां लाभतः पिबेत् ॥ ३२ ॥
सौवर्चलेन संयुक्तां योनिशूलनिवारणीम् ।
सूताया हृच्छिरोबस्तिशूलं मक्कन्दसङ्गितम् ॥ ३३ ॥
यवक्षारं पिबेत्तत्र सर्पिषोष्णोदकेन वा ।
पिप्पल्यादिगणक्वाथं पिबेद्वा लवणान्वितम् ॥ ३४ ॥
पारावतशकृत्पीतं शालितण्डुलवारिणा ।
गर्भपातान्तरोत्थे तु रक्तस्रावनिवारणम् ॥ ३५ ॥
जलपिष्टवरुणपत्रैःसघृतैरुद्वर्तनालेपौ तु ।
किक्किशरोगं हरतो गोमयघर्षादथो विहितौ ॥ ३६ ॥
267-a
ह्रीबेरारणालरक्तचन्दनबला
धन्याकवत्सादनी
मुस्तोशीरयवासपर्पटविषा-
क्वाथं पिबेद्गर्भिणी ।
नानादोषयुतातिसारकगदे
रक्तस्रुतौ वा ज्वरे
योगोऽयं मुनिभिः पुरा निगदितः
सूत्यामये शस्यते ॥ ३७ ॥
अमृतानागरसहचर-
भद्रोत्कटपञ्चमूलजलदलशृतम् ।
मधुसंयुक्तं निवार
यति सज्वरं सूतिकातङ्कम् ॥ ३८ ॥
सहचरपुष्करवेतसमूलं
वैकङ्कतं दारु कुलत्थसमम् ।
जलमत्र सैन्धवहिङ्गुयुतं
सद्यो घोरसूतिकाशूलहरम् ॥ ३९ ॥
267-b
दशमूलीकृतः क्वाथः सद्यः सूतिरुजापहः ।
पिप्पली पिप्पलीमूलं चव्यं शुण्ठी यमानिका ॥ ४० ॥
जीवके द्वे हरिद्रे द्वे बिडसौवर्चलं तथा ।
एतैरेवौषधैः पिष्टैरारणालं विपाचितम् ॥ ४१ ॥
आमवातहरं वृष्यं कफघ्नं वह्निदीपनम् ।
काञ्जिकं वज्रकं नाम स्त्रीणामग्निविवर्धनम् ॥ ४२ ॥
मक्कन्दशूलशमनं परं क्षीराभिमर्दनम् ।
क्षीरपाकविधानेन काञ्जिकस्यापि साधनम् ॥ ४३ ॥
१०जीरकं हपुषा धान्यं शताह्वा सुरदारु च ।
यमानी त्र्यष्टको हिङ्गुपत्रिका कासमर्दकम् ॥ ४४ ॥
पिप्पली पिप्पलीमूलमजमोदाथ बाप्पिका ।
चित्रकं च पलांशानि तथान्यच्च चतुःपलम् ॥ ४५ ॥
कशेरुकं नागरं च कुष्ठं दीप्यकमेव च ।
गुडस्य च शतं दद्याद् घृतप्रस्थं तथैव च ॥ ४६ ॥
क्षीरद्विप्रस्थसंयुक्तं शनैर्मृद्वग्निना पचेत् ।
पञ्चजीरक इत्येष सूतिकानां प्रशस्यते ॥ ४७ ॥
गर्भार्थिनीनां नारीणां बृंहणीये समारुते ।
विंशतिं व्यापदो योनेः कासं श्वासं ज्वरं क्षयम् ॥ ४८ ॥
हलीमकं पाण्डुरोगं दौर्गन्ध्यं बहुमूत्रताम् ।
हन्ति पीनोन्नतकुचाः पद्मपत्रायतेक्षणाः ।
उपयोगात्स्त्रियो नित्यमलक्ष्मीमलवर्जिताः ॥ ४९ ॥
268-a
११वनकार्पासिकेक्षूणां मूलं सौवीरकेण वा ।
विदारीकन्दं सुरया पिबेद्वा स्तन्यवर्धनम् ॥ ५० ॥
दुग्धेन शालितण्डुलचूर्णपानं विवर्धयेत् ।
स्तन्यं सप्ताहतः क्षीरसेविन्यास्तु न संशयः ॥ ५१ ॥
हरिद्रादिं वचादिं वा पिबेत्स्तन्यविशुद्धये ।
तत्र वातात्मके स्तन्ये दशमूलीजलं पिबेत् ॥ ५२ ॥
पित्तदुष्टेऽमृताभीरुपटोलं निम्बचन्दनम् ।
धात्री कुमारश्च पिबेत्क्वाथयित्वा सशारिवम् ॥ ५३ ॥
कफे वा त्रिफलामुस्ताभूनिम्बं कटुरोहिणीम् ।
धात्री स्तन्यविशुद्ध्यर्थं मुद्गयूषरसाशिनी ॥ ५४ ॥
भार्गीवचादारुपाठाः पिबेत्सातिविषाः शृताः ॥ ५५ ॥
कुक्कुरामञ्जुकामूलं चर्वितमास्ये विधारितं जयति ।
सप्ताहात्स्तनकीलं स्तन्यं चैकान्ततः कुरुते ॥ ५६ ॥
१२शोथं स्तनोत्थितमवेक्ष्य भिषग्विदध्या-
द्यद्विद्रधावभिहितं त्विह भेषजं तु ।
268-b
आमे विदह्यति तथैव गते च पाकं
तस्याः स्तनौ सततमेव च निर्दुहीत ॥ ५७ ॥
विशालामूललेपस्तु हन्ति पीडां स्तनोत्थिताम् ।
निशाकनकफलाभ्यां लेपश्चापि स्तनार्तिहा ॥ ५८ ॥
मूषिकवसया शूकरगजमहिषमांसचूर्णसंयुतया ।
अभ्यङ्गमर्दनाभ्यां कठिनपीनस्तनौ भवतः ॥ ५९ ॥
महिषीभवनवनीतं व्याधिबलोग्रा तथैव नागबला ।
पिष्टा मर्दनयोगात्पीनं कठिनं स्तनं कुरुते ॥ ६० ॥
१३श्रीपर्णीरसकल्काभ्यां तैलं सिद्धं तिलोद्भवं ।
तत्तैलं तूनकेनैव स्तनस्योपरि धारयेत् ।
पतितावुत्थितौ स्त्रीणां भवेयातां पयोधरौ ॥ ६१ ॥
१४कासीसतुरगगन्धा
शारिवागजपिप्पलीविपक्वेन ।
तैलेन यान्ति वृद्धिं
स्तनकर्णवराङ्गलिङ्गानि ॥ ६२ ॥
प्रथमर्तौ तण्डुलाम्भो
नस्यं कुर्यात्स्तनौ स्थिरौ ।
गोमहिषीघृतसहितं
तैलं श्यामाकृताञ्जलिवचाभिः ॥ ६३ ॥
सत्रिकटुनिशाभिः
सिद्धं नस्यं स्तनोत्थापनं परम् ।
तनूकरोति मध्यं
पीतं मथितेन माधवीमूलम् ॥ ६४ ॥
269-a
स्याच्छिथिलापि च गाढा
सुरगोपाज्याभ्यङ्गसङ्गतो योनिः ।
शरवहलस्थिरबन्धन-
रज्ज्वा सन्ताडनाद्धि दयितेन ॥ ६५ ॥
नश्यत्यबलाद्वेषः पत्यौ सहजः कृतोऽथवा योगैः ।
दत्त्वैव दुग्धभक्तं विप्रायोत्पाट्य सितबलामूलम् ।
पुष्ये कन्यापिष्टं दत्तमनिच्छाहरं भक्ष्ये ॥ ६६ ॥