Adhikāra 67

301-a
सर्पिस्तैलं वसा मज्जा स्नेहेषु प्रवरं मतम् ।
तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥ १ ॥
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् ।
देयं बहुकफे चापि व्योषक्षारसमायुतम् ॥ २ ॥
तथा धीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम् ।
ग्रन्थिनाडीक्रिमिश्लेष्ममेदोमारुतरोगिषु ॥ ३ ॥
तैलं लाघवदार्ढ्यार्थं क्रूरकोष्ठेषु देहिषु ।
वातातपाध्वभारस्त्रीव्यायामक्षीणधातुषु ॥ ४ ॥
रुक्षक्लेशक्षयात्यग्निवातावृतपथेषु च ।
शेषौ वसन्ते सन्ध्यस्थिमर्मकोष्ठरुजासु च ।
तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि ॥ ५ ॥
तैलं प्रावृषि वर्षान्ते सर्पिरन्त्यौ तु माधवे ।
साराधणऋतौ स्नेहं पिबेत्कार्यवशादिह ॥ ६ ॥
301-b
वातपित्ताधिको रात्रावुष्णे चापि पिबेन्नरः ।
श्लेष्माधिको दिवा शीते पिबेच्चामलभास्करे ॥ ७ ॥
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तिचिन्तकाः ।
वृद्धा बाला बलकृशा रुक्षक्षीणास्ररेतसः ॥ ८ ॥
वातार्तस्यन्दतिमिरदारुणप्रतिरोधिनः ।
स्नेह्या न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः ॥ ९ ॥
ऊरुस्तम्भातिसारामगलरोगगरोदरैः ।
मूर्च्छाछर्द्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः ॥ १० ॥
आमप्रसूता युक्ते च नस्ये बस्तौ विरेचने ।
स्नेहसात्म्यः क्लेशसहो दृढः काले च शीतले ॥ ११ ॥
अच्छमेव पिबेत्स्नेहमच्छपानं हि शोभनम् ।
पिवेत्संशमनं स्नेहमन्नकाले प्रकाङ्क्षितः ॥ १२ ॥
शुद्ध्यर्थं पुनराहारे नैशे जीर्णे पिवेन्नरः ।
अहोरात्रमहः कृत्स्नं दिनार्धं च प्रतीक्षते ॥ १३ ॥
302-a
उत्तमा मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति ।
उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे ॥ १४ ॥
जघन्यस्य पलार्धेन स्नेहक्वाथ्यौषधेषु च ।
जलमुष्णं घृते पेयं यूषस्तैलेऽनुशस्यते ॥ १५ ॥
वसामज्ज्ञोस्तु मण्डः स्यात्सर्वेषूष्णमथाम्बु वा ।
भल्लातेतौरवे स्नेहे शीतमेव जलं पिबेत् ॥ १६ ॥
स्नेहपीतस्तु तृष्णायां पिबेदुष्णोदकं नरः ।
एवं चानुप्रशाम्यन्तं स्नेहमुष्णाम्बुनोद्धरेत् ॥ १७ ॥
मिथ्याचाराद्वहुत्वाद्वा यस्य स्नेहो न जीर्यति ।
विष्टभ्य वापि जीर्येत्तं वारिणोष्णेन वामयेत् ॥ १८ ॥
ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने ।
जीर्णाजीर्णविशङ्कायां पिबेदुष्णोदकं नरः ॥ १९ ॥
तेनोद्गारो भवेच्छुद्धो रुचिश्चान्नं भवेत्प्रति ।
भोज्यान्नं मात्रया पास्यन् श्वः पिबन्पीतवानपि ।
द्रवोष्णमनभिष्यन्दि नातिस्निग्धमशङ्करम् ॥ २० ॥
त्र्यहावरं सप्तदिनं परन्तु
स्निग्धो परः स्वेदयितव्य इष्टः ।
नातः परं स्नेहनमादिशन्ति
सात्मी भवेत् सप्तदिनात्परं तु ॥ २१ ॥
302-b
मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया ।
स्निह्यति क्रूरकोष्ठस्तु सप्तरात्रेण मानवः ॥ २२ ॥
स्निग्धद्रवोष्णधन्वोत्थरसभुक्स्वेदमाचरेत् ।
स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं वमनं पुनः ॥ २३ ॥
एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः ।
वातानुलोम्यं दीप्ताग्निर्वर्चः स्निग्धमसंहतम् ॥ २४ ॥
स्नेहोद्वेगः क्लमः सम्यक् स्निग्धे रुक्षे विपर्ययः ।
अतिस्निग्धे तु पाण्डुत्वं घ्राणवक्त्रगुदस्रवाः ॥ २५ ॥
रुक्षस्य स्नेहनं कार्यमतिस्निग्धस्य रुक्षणम् ।
श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः ॥ २६ ॥
बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु ।
योगानिमाननुद्वेगान्सद्यः स्नेहान्प्रयोजयेत् ॥ २७ ॥
भृष्टे मांसरसे स्निग्धा यवागूः स्वल्पतण्डुला ।
सक्षौद्रा सेव्यमाना तु सद्यः स्नेहनमुच्यते ॥ २८ ॥
सर्पिस्तैलवसामज्जातण्डुलप्रसृतैः शृता ।
पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता ॥ २९ ॥
सर्पिष्मती बहुतिला तथैव स्वल्पतण्डुला ।
सुखोष्णा सेव्यमाना तु सद्यः स्नेहनमुच्यते ॥ ३० ॥
शर्कराघृतसंसृष्टे दुह्याद्गां कलसेऽथवा ।
पाययेदक्षमेतद्धि सद्यः स्नेहनमुच्यते ॥ ३१ ॥
ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान् ।
कुष्ठी शोथी प्रमेही च स्नेहनेन प्रयोजयेत् ॥ ३२ ॥
स्नेहैर्यथास्वं तान्सिद्धैः स्नेहयेदविकारिभिः ।
पिप्पलीभिर्हरीतक्या सिद्धैस्त्रिफलया सह ॥ ३३ ॥
स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम् ।
स्नेहस्वेदोपपन्नस्य संशोधनमथान्तरम् ॥ ३४ ॥