302-b
मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया ।
स्निह्यति क्रूरकोष्ठस्तु सप्तरात्रेण मानवः ॥ २२ ॥
स्निग्धद्रवोष्णधन्वोत्थरसभुक्स्वेदमाचरेत् ।
स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं वमनं पुनः ॥ २३ ॥
एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः ।
वातानुलोम्यं दीप्ताग्निर्वर्चः स्निग्धमसंहतम् ॥ २४ ॥
स्नेहोद्वेगः क्लमः सम्यक् स्निग्धे रुक्षे विपर्ययः ।
अतिस्निग्धे तु पाण्डुत्वं घ्राणवक्त्रगुदस्रवाः ॥ २५ ॥
रुक्षस्य स्नेहनं कार्यमतिस्निग्धस्य रुक्षणम् ।
श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः ॥ २६ ॥
बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु ।
योगानिमाननुद्वेगान्सद्यः स्नेहान्प्रयोजयेत् ॥ २७ ॥
भृष्टे मांसरसे स्निग्धा यवागूः स्वल्पतण्डुला ।
सक्षौद्रा सेव्यमाना तु सद्यः स्नेहनमुच्यते ॥ २८ ॥
सर्पिस्तैलवसामज्जातण्डुलप्रसृतैः शृता ।
पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता ॥ २९ ॥
सर्पिष्मती बहुतिला तथैव स्वल्पतण्डुला ।
सुखोष्णा सेव्यमाना तु सद्यः स्नेहनमुच्यते ॥ ३० ॥
शर्कराघृतसंसृष्टे दुह्याद्गां कलसेऽथवा ।
पाययेदक्षमेतद्धि सद्यः स्नेहनमुच्यते ॥ ३१ ॥
ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान् ।
कुष्ठी शोथी प्रमेही च स्नेहनेन प्रयोजयेत् ॥ ३२ ॥
स्नेहैर्यथास्वं तान्सिद्धैः स्नेहयेदविकारिभिः ।
पिप्पलीभिर्हरीतक्या सिद्धैस्त्रिफलया सह ॥ ३३ ॥
स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम् ।
स्नेहस्वेदोपपन्नस्य संशोधनमथान्तरम् ॥ ३४ ॥

Adhikāra 68