35-b
न विरोहन्ति गुदजाः पुनस्तक्रसमाहताः ॥ १२ ॥
त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत् ।
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत् ॥ १३ ॥
पित्तश्लेष्मप्रशमनी कच्छूकण्डूरुजापहा ।
गुदजान्नाशयत्याशु योजिता सगुडाभया ॥ १४ ॥
सगुडां पिप्पलीयुक्तामभयां घृतभर्जिताम् ।
त्रिवृद्दन्तियुतां वापि भक्षयेदानुलोमिकीम् ॥ १५ ॥
तिलारुष्करसंयोगं भक्षयेदग्निवर्धनम् ।
कुष्ठरोमहरं श्रेष्ठमर्शसां नाशनं परम् ॥ १६ ॥
तिलभल्लातकं पथ्या गुडश्चेति समांशिकम् ।
दुर्नामकासश्वासघ्नं प्लीहपाण्डुज्वरापहम् ॥ १७ ॥
गोमूत्रव्युषितां दद्यात्सगुडां वा हरीतकीम् ।
पञ्चकोलकयुक्तं वा तक्रमस्मै प्रदापयेत् ॥ १८ ॥
मृल्लिप्तं शौरणं कन्दं पक्त्वाग्नौ पुटपाकवत् ।
अद्यात्सतैललवणं दुर्नामविनिवृत्तये ॥ १९ ॥
स्विन्नं वार्ताकुफलं घोषायाः क्षारजेन सलिलेन
तद्धृतभृष्टं युक्तं गुडे? नाप्तितो योऽत्ति ॥ २० ॥
पिबति च तक्रं नूनं
तस्याश्वेवातिवृद्धगुदजानि ।
यान्ति विनाशं पुंसां
सहजान्यपि सप्तरात्रेण ॥ २१ ॥