303-a
वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते ।
स्निग्धरुक्षस्तथा स्निग्धो रुक्षश्चात्युपकल्पितः ॥ १ ॥
व्याधौ शीते शरीरे च महान्स्वेदो महाबले ।
दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो मतः ॥ २ ॥
आमाशयगते वाते कफे पक्वाशयाश्रये ।
रक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च ॥ ३ ॥
वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु वा न वा ।
मध्यमं वङ्क्षणौ शेषमङ्गावयबमिष्टतः ।
न स्वेदयेदतिस्थूलरुक्षदुर्बलमूर्च्छितान् ॥ ४ ॥