Adhikāra 70
१सिग्धस्विन्नायवान्ताय दातव्यं तु विरेचनम् ।
अन्यथा योजितं ह्येतद्ग्रहणीगदकृन्मतम् ॥ १ ॥
मृदुः पित्तेन कोष्ठः स्यात्क्रूरो वातकफाश्रयात् ।
मध्यमः समदोपत्वाद्योज्या मात्रानुरूपतः ॥ २ ॥
शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम् ।
रेचनं सुकुमाराणां त्वक्पत्रमरिचांशिकम् ।
त्रिवृच्चूर्णं सितायुक्तं पिबेच्छ्रेष्ठं विरेचनम् ॥ ३ ॥
छित्त्वा द्विधेक्षुं परिलिप्य कल्कैः
स्त्रिमण्डिजातैः परिवेष्ट्य बद्ध्वा ।
पक्वं तु सम्यक्पुटपाकयुक्त्या
खादेत्तु तं पित्तगदी सुशीतम् ॥ ४ ॥
पिप्पलीनागरक्षारं श्यामात्रिवृतया सह ।
306-b
लेहयेन्मधुना सार्धं कफव्याधौ विरेचनम् ॥ ५ ॥
हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत् ।
मरिचानि च तत्सर्वं गोमूत्रेण विरेचनम् ॥ ६ ॥
त्रिवृच्छाणत्रयसमा त्रिफला तत्समानि च ।
क्षारकृष्णाविडङ्गानि तच्चूर्णं मधुसर्पिषा ॥ ७ ॥
लिह्याद्गुडेन गुडिकां कृत्वा वाप्युपयोजयेत् ।
कफवातकृतान्गुल्मान्प्लीहोदरभगन्दरान् ॥ ८ ॥
हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम् ।
२अभया पिप्पलीमूलं मरिचं नागरं तथा ॥ ९ ॥
त्वक्पत्रपिप्पलीमुस्तविडङ्गामलकानि च ।
कर्षः प्रत्येकमेषां तु दन्त्याः कर्षत्रयं तथा ॥ १० ॥
पट्कर्षाश्च सितायास्तु द्विपलं त्रिवृतो भवेत् ।
सर्वं सुचूर्णितं कृत्वा मधुना मोदकं कृतम् ॥ ११ ॥
खादेत्प्रतिदिनं चैकं शींत चानु पिबेज्जलम् ।
तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते ॥ १२ ॥
पाण्डुरोगं विपं कासं जङ्घापार्श्वरुजौ तथा ।
पृष्ठार्तिं मूत्रकृच्छ्रं च दुर्नाम सभगन्दरम् ॥ १३ ॥
अश्मरीमेहकुष्ठानि च दाहशोथोदराणि च ।
यक्ष्माणं चक्षुषो रोगं क्रमं वैद्येन जानता ।
योजितोऽयं निहन्त्याशु अभयाद्यो हि मोदकः ॥ १४ ॥
एरण्डतैलं त्रिफलाक्वाथेन द्विगुणेन च ।
युक्तं पीत्वा पयोभिर्वा न चिरेण विरिच्यते ॥ १५ ॥
३स्रोतोविशुद्धीन्द्रियसम्प्रसादौ
लघुत्वमूर्जोऽग्निरनामयत्वम् ।
प्राप्तिश्च विट्पित्तकफानिलानां
सम्यग्विरिक्तस्य भवेत् क्रमेण ॥ १६ ॥
स्याच्छ्लेष्मपित्तानिलसंप्रकोपः
सादस्तथाग्नेर्गुरुता प्रतिश्या ।
तन्द्रा तथा छर्दिररोचकश्च
वातानुलोम्यं न च दुर्विरिक्ते ॥ १७ ॥
कफास्रपित्तक्षयजानिलोत्थाः
सुप्त्यङ्गमर्दक्लमवेपनाद्याः ।
निद्रावलाभावतमःप्रवेशाः
सोन्मादहिक्काश्च विरेचितेऽति ॥ १८ ॥
मन्दाग्निमक्षीणमसंद्विरिक्तं
न पाययेत्तद्दिवसे यवागूम् ।
विपर्यये तद्दिवसे तु सायं
पेयाक्रमो वान्तवदिष्यते तु ॥ १९ ॥
यथाणुरग्निस्तृणगोमयाद्यैः
सन्धुक्ष्यमाणो भवति क्रमेण ।
307-b
महान्स्थिरः सर्वसहस्तथैव
शुद्धस्य पेयादिभिरन्तराग्निः ॥ २० ॥
४कषायमधुरैः पित्ते विरेकः कटुकैः कफे ।
स्निधोष्णलवणैर्वायोरप्रवृत्ते च पाययेत् ॥ २१ ॥
उष्णाम्बु स्वेदयेच्चास्य पाणितापेन चोदरम् ।
उत्थानेऽल्पे दिने तस्मिन्भुक्त्वान्येद्युः पुनः पिबेत् ॥ २२ ॥
अदृढस्नेहकोष्ठस्तु पिबेदूर्ध्वं दशाहतः ।
भूयोऽष्युपस्कृततनुः स्नेहस्वेदैर्विरेचनम् ॥ २३ ॥
यौगिकं सम्यगालोड्य स्मरन्पूर्वमनुक्रमम् ।
दुर्वलः शोधितः पूर्वमल्पदोषः कृशो नरः ।
अपरिज्ञातकोष्ठस्तु पिबेन्मृद्वल्पमौषधम् ॥ २४ ॥
रुक्षवह्वनिलक्रूरकोष्ठव्यायामसेविनाम् ।
दीप्ताग्नीनां च भैपज्यमविरेच्यैव जीर्यति ॥ २५ ॥
तेभ्यो वस्तिं पुरा दद्यात्ततः स्निग्धं विरेचनम् ।
अस्निग्धे रेचनं स्निग्धं रुक्षं स्निग्धेऽतिशस्यते ॥ २६ ॥
विरुक्ष्य स्नेहसात्म्यं तु भूयः स्निग्धं विरेचयेत् ।
पद्मकोशीरनागाह्वचन्दनानि प्रयोजयेत् ॥ २७ ॥
अतियोगे विरेकस्य पानालेपनसेचनैः ।
सौवीरपिष्टाम्रवल्कलाभिलेपोऽतिसारहा ॥ २८ ॥
अविरेच्या वालवृद्धश्रान्तभीतनवज्वराः ।
अल्पाग्न्यधोगपित्तास्रक्षतपाय्वतिसारिणः ॥ २९ ॥
सशल्या स्थापितक्रूरकोष्ठातिस्निग्धशोषिणः ।
गर्भिणी नवसूता च तृष्णार्तोऽजीर्णवानपि ॥ ३० ॥