306-b
लेहयेन्मधुना सार्धं कफव्याधौ विरेचनम् ॥ ५ ॥
हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत् ।
मरिचानि च तत्सर्वं गोमूत्रेण विरेचनम् ॥ ६ ॥
त्रिवृच्छाणत्रयसमा त्रिफला तत्समानि च ।
क्षारकृष्णाविडङ्गानि तच्चूर्णं मधुसर्पिषा ॥ ७ ॥
लिह्याद्गुडेन गुडिकां कृत्वा वाप्युपयोजयेत् ।
कफवातकृतान्गुल्मान्प्लीहोदरभगन्दरान् ॥ ८ ॥
हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम् ।
अभया पिप्पलीमूलं मरिचं नागरं तथा ॥ ९ ॥
त्वक्पत्रपिप्पलीमुस्तविडङ्गामलकानि च ।
कर्षः प्रत्येकमेषां तु दन्त्याः कर्षत्रयं तथा ॥ १० ॥
पट्कर्षाश्च सितायास्तु द्विपलं त्रिवृतो भवेत् ।
सर्वं सुचूर्णितं कृत्वा मधुना मोदकं कृतम् ॥ ११ ॥
खादेत्प्रतिदिनं चैकं शींत चानु पिबेज्जलम् ।
तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते ॥ १२ ॥
पाण्डुरोगं विपं कासं जङ्घापार्श्वरुजौ तथा ।
पृष्ठार्तिं मूत्रकृच्छ्रं च दुर्नाम सभगन्दरम् ॥ १३ ॥