307-b
महान्स्थिरः सर्वसहस्तथैव
शुद्धस्य पेयादिभिरन्तराग्निः ॥ २० ॥
कषायमधुरैः पित्ते विरेकः कटुकैः कफे ।
स्निधोष्णलवणैर्वायोरप्रवृत्ते च पाययेत् ॥ २१ ॥
उष्णाम्बु स्वेदयेच्चास्य पाणितापेन चोदरम् ।
उत्थानेऽल्पे दिने तस्मिन्भुक्त्वान्येद्युः पुनः पिबेत् ॥ २२ ॥
अदृढस्नेहकोष्ठस्तु पिबेदूर्ध्वं दशाहतः ।
भूयोऽष्युपस्कृततनुः स्नेहस्वेदैर्विरेचनम् ॥ २३ ॥
यौगिकं सम्यगालोड्य स्मरन्पूर्वमनुक्रमम् ।
दुर्वलः शोधितः पूर्वमल्पदोषः कृशो नरः ।
अपरिज्ञातकोष्ठस्तु पिबेन्मृद्वल्पमौषधम् ॥ २४ ॥
रुक्षवह्वनिलक्रूरकोष्ठव्यायामसेविनाम् ।
दीप्ताग्नीनां च भैपज्यमविरेच्यैव जीर्यति ॥ २५ ॥
तेभ्यो वस्तिं पुरा दद्यात्ततः स्निग्धं विरेचनम् ।
अस्निग्धे रेचनं स्निग्धं रुक्षं स्निग्धेऽतिशस्यते ॥ २६ ॥
विरुक्ष्य स्नेहसात्म्यं तु भूयः स्निग्धं विरेचयेत् ।
पद्मकोशीरनागाह्वचन्दनानि प्रयोजयेत् ॥ २७ ॥
अतियोगे विरेकस्य पानालेपनसेचनैः ।
सौवीरपिष्टाम्रवल्कलाभिलेपोऽतिसारहा ॥ २८ ॥
अविरेच्या वालवृद्धश्रान्तभीतनवज्वराः ।
अल्पाग्न्यधोगपित्तास्रक्षतपाय्वतिसारिणः ॥ २९ ॥