Adhikāra 72

अनुवास्य स्निग्धतनुं तृतीयेऽह्नि निरूहयेत् ।
मध्याह्ने किञ्चिदावृत्ते प्रयुक्ते वलिमङ्गले ॥ १ ॥
अभ्यक्तस्वेदितोत्सृष्टमलं नातिबुभुक्षितम् ।
मधुस्नेहनकल्काख्यकषायावापतः क्रमात् ॥ २ ॥
त्रीणि षड् द्वे दश त्रीणि पलान्यनिलरोगिषु ।
पित्ते चत्वारि चत्वारि द्वे द्विपञ्चचतुष्टयम् ॥ ३ ॥
षट् त्रीणि द्वे दश त्रीणि कफे चापि निरूहणम् ।
दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम् ॥ ४ ॥
विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतद्वयम् ।
एकीभूते ततः स्नेहे कल्कस्य प्रसृतं क्षिपेत् ॥ ५ ॥
संमूर्च्छितं कषायं तं पञ्चप्रसृतसंमितम् ।
311-b
बितरेत्तु यथावापमन्ते द्विप्रसृतोन्मितम् ॥ ६ ॥
वस्त्रपूतस्तथोष्णाम्बुकुम्भीवाष्पेण तापितः ।
एवं प्रकल्पितो वस्तिर्द्वादशप्रसृतो भवेत् ॥ ७ ॥
न धावत्यौपधं पाणिं न तिष्ठत्यवलिप्य च ।
न करोति च सीमन्तं स निरूहः सुयोजितः ॥ ८ ॥
पूर्वोक्तेन विधानेन गुदवस्तिं निधापयेत् ।
त्रिंशन्मात्रास्थितो वस्तिस्ततस्तूत्कटको भवेत् ॥ ९ ॥
जानुमण्डलमावेष्ट्य दत्तं दक्षिणपाणिना ।
कृष्टनेत्रच्छटाशब्दशतं तिष्ठेदवेगवान् ॥ १० ॥
द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः ।
सम्यक् निरूहलिङ्गे तु प्राप्ते वस्तिं निवारयेत् ॥ ११ ॥
प्रसृष्टविण्मूत्रसमीरणत्वं
रुच्यग्निवृद्ध्याशयलाघवानि ।
रोगोपशान्तिः प्रकृतिस्थता च
वलं च तत्स्यात्सुनिरूढलिङ्गम् ॥ १२ ॥
अयोगश्चातियोगश्च निरूहश्च विरिक्तवत् ॥ १३ ॥
स्निग्धोष्ण एकः पवने समांसो
द्वौ स्वादुशीतौ पयसा च पित्ते ॥ १४ ॥
त्रयः समूत्राः कटु कोष्णरुक्षाः
कफे निरूहा न परं विधेयाः ।
312-a
एकोऽपकर्षत्यनिलं स्वमार्गात्
पित्तं द्वितीयस्तु कफं तृतीयः ॥ १५ ॥
आयामान्तं मुहूर्तान्तं निरूहं शोधनैर्हरेत् ।
निरूहैरेव मतिमान्क्षारमूत्राम्लसंयुतैः ॥ १६ ॥
विगुणानिलविष्टब्धश्चिरं तिष्ठन्निरूहणः ।
शूलारतिज्वराटोपान्मरणं वा प्रयच्छति ॥ १७ ॥
न तु भुक्तवते देयमास्थापनमिति स्थितिः ।
आमं तद्धि हरेद्भुक्तं छर्दिदोपांश्च कोपयेत् ॥ १८ ॥
आवस्थिकः क्रमश्चापि मत्वा कार्यो निरूहणे ।
अतिप्रपीडितो बस्तिरतिक्रम्याशयं ततः ॥ १९ ॥
वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते ।
छर्दिहृल्लासमूर्च्छादीन्प्रकुर्याद्दाहमेव च ॥ २० ॥
तत्र तूर्णं गलापीडं कुर्याच्चाप्यवधूननम् ।
शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान् ॥ २१ ॥
मुनिरूढमथोष्णाम्बु स्नातं भुक्तरसौदनम् ।
यथोक्तेन विधानेन योजयेत्स्नेहवस्तिना ॥ २२ ॥
तदहस्तस्य पवनाद्भयं बलवदिष्यते ।
रसौदनस्तेन शस्तस्तदहश्चानुवासनम् ॥ २३ ॥
312-b
दशमूलीकपायेण शताह्वाक्षं प्रयोजयेत् ।
सैन्धवाक्षं च मधुनो द्विपलं द्विपलं तथा ॥ २४ ॥
तैलस्य पलमेकं तु फलस्यैकत्र योजयेत् ।
अर्धमातृकसङ्गोऽयं बस्तिर्देयो निरूहवत् ॥ २५ ॥
न च स्नेहो न च स्वेदः परिहारविधिर्न च ।
आत्रेयानुमतो ह्येष सर्वरोगनिवारणः ॥ २६ ॥
यक्ष्मघ्नश्च शूलघ्नश्च क्रिमिघ्नश्च विशेपतः ।
शुक्रसञ्जननो ह्येष वातशोणितनाशनः ।
बलवर्णकरो वृष्यो वस्तिः पुंसवनः परः ॥ २७ ॥
स्नेहं गुडं मांसरसं पयश्च
अम्लानि मूत्रं मधुसैन्धवे च ।
313-a
एतान्यनुक्तानि च दापयेच्च
निरूहयोगे मदनात्फलं च ॥ २८ ॥
लवणं कार्षिकं दद्यात्पलमेकं तु मादनम् ।
वाते गुडः सितापित्ते कफे सिद्धार्थकादयः ॥ २९ ॥
सैन्धवाक्षं समादाय शताह्वाक्षं तथैव च ।
गोमूत्रस्य पलान्यष्टौ वस्तिकायाः पलद्वयम् ॥ ३० ॥
गुडस्य द्वे पले चैव सर्वमालोड्य यत्नतः ।
वस्त्रपूतं सुखोष्णं च बस्तिं दद्याद्विचक्षणः ॥ ३१ ॥
शूलं विट्सङ्गमानाहं मूत्रकृच्छ्रं च दारुणम् ।
क्रिम्युदावर्तगुल्मादीन्सद्यो हन्यान्निषेवितः ॥ ३२ ॥
पलशुक्तिकर्षकुडवै-
रम्लीगुडसिन्धुजन्मगोमूत्रैः ।
तैलयुतोऽयं बस्तिः
शूलानाहामवातहरः ॥ ३३ ॥
वैतरणः क्षारबस्तिर्भुक्ते चापि प्रदीयते ॥ ३४ ॥
बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः ।
क्षीरसिद्धाः सुसिद्धाःस्युः सास्राःपिच्छिलसंगताः ॥ ३५ ॥
वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम् ।
सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ॥ ३६ ॥
चरकादौ समुद्दिष्टा बस्तयो ये सहस्रशः ।
व्यवहारो न तैः प्रायो निबद्धा नात्र तेन ते ॥ ३७ ॥
बस्तिर्वयःस्थापयिता सुखायु-
र्बलाग्निमेधास्वरवर्णकृच्च ।
313-b
सर्वार्थकारी शिशुवृद्धयूनां
निरत्ययः सर्वगदापहश्च ॥ ३८ ॥