Adhikāra 76

316-b
सर्वेषामक्षिरोगाणामादावाश्च्योतनं हितम् ।
रुक्तोदकण्डूघर्षादास्रुहरागनिबर्हणम् ॥ १ ॥
उष्णं वाते कफे चोष्णं तच्छीतं रक्तपित्तयोः ।
निवातस्थस्य वामेन पाणिनोन्मील्य लोचनम् ॥ २ ॥
शुक्तौ प्रलम्बयान्येन पिचुवर्त्या कनीनिके ।
दश द्वादश वा बिन्दून् द्व्यङ्गुलादवसेचयेत् ॥ ३ ॥
ततः प्रमृज्य मृदुना चेलेन कफवातयोः ।
अन्येन कोष्णपानीयप्लुतेन स्वेदयेन्मृदु ॥ ४ ॥
अत्युष्णातीक्ष्णं रुग्रागदृङ्नाशायाक्षिसेचनम् ।
अतिशीतं तु कुरुते निस्तोदस्तम्भवेदनाः ॥ ५ ॥
कषायवर्त्मतां घर्षं कृच्छ्रात्तन्मेहनं बहु ।
विकारवृद्धिमत्यल्पं संरम्भमपरिस्रुतम् ॥ ६ ॥
अथाञ्जनं शुद्धतनोर्नेत्रमात्राश्रये मले ।
पक्वलिङ्गेऽल्पशोथार्तिकण्डूपैच्छिल्यलक्षिते ॥ ७ ॥
317-a
मन्दघर्षास्रुरागेऽक्ष्णि प्रयोज्यं घनदूषिके ।
लेखनं रोपणं दृष्टिप्रसादनमिति त्रिधा ॥ ८ ॥
अञ्जनं लेखनं तत्र कषायाम्लपटूषणैः ।
रोपणं तिक्तकैर्द्रव्यैः स्वादुशीतैः प्रसादनम् ॥ ९ ॥
दशाङ्गुला तनुर्मध्ये शलाका मुकुलानना ।
प्रशस्ता लेखने ताम्री रोपणे काललोहजा ॥ १० ॥
अङ्गुला च सुवर्णोत्था रूपजा च प्रसादने ।
पिण्डो रसक्रिया चूर्णं त्रिधैवाञ्जनकल्पना ॥ ११ ॥
गुरौ मध्यलघौ दोषे तां क्रमेण प्रयोजयेत् ।
अथानून्मीलयन् दृष्टी अन्तः सञ्चारयेच्छनैः ॥ १२ ॥
अञ्जिते वर्त्मनी किञ्चिच्चालयेच्चैवमञ्जनम् ।
अपेतौषधसम्बन्धं निर्वृतं नयनं यदा ॥ १३ ॥
व्याधिदोषं तु योग्याभिरद्भिः प्रक्षालयेत्तदा ।
दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं सवाससा ॥ १४ ॥
ऊर्ध्ववर्त्मनि संगृह्य शोध्यं वामेन चेतरत् ।
निशि स्वप्नेन मध्याह्नपानान्नोष्णगभस्तिभिः ॥ १५ ॥
अक्षिरोगाय दोषाः स्युर्वर्धितोत्पीडितद्रुताः ।
प्रातः सायं च तच्छान्त्यै व्यभ्रकेऽतोऽञ्जयेत्सदा ॥ १६ ॥
कण्डूजाड्येऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः ।
तीक्ष्णाञ्जनाभितप्ते तु तूर्णं प्रत्यञ्जनं हितम् ॥ १७ ॥
317-b
नाञ्जयेद्भीतवमितविरिक्ताशितवेगिते ।
क्रुद्धज्वरितभ्रान्ताक्षशिरोरुक्शोषजागरे ॥ १८ ॥
अदृष्टेऽर्के शिरःस्नाते पीतयोर्धूममद्ययोः ।
अजीर्णेऽप्यर्कसंतप्ते दिवास्वप्ने पिपासिते ॥ १९ ॥
निर्वाते तर्पणं योज्यं शुद्धयोर्मूर्धकाययोः ।
काले साधारणे प्रातः सायं वोत्तानशायिनः ॥ २० ॥
यवमाषमयीं पालीं नेत्रकोणाद्बहिः समाम् ।
द्व्यङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धमावपेत् ॥ २१ ॥
सर्पिर्निमीलिते नेत्रे तप्ताम्बु प्रविलायितम् ।
नक्तान्ध्यवाततिमिरकृच्छ्ररोधादिके वसाम् ॥ २२ ॥
आपक्ष्माग्रादथोन्मेषं शनकैस्तस्य कुर्वतः ।
मात्रां विगणयेत् तत्र वर्त्म सन्धिसितासिते ॥ २३ ॥
दृष्टौ च क्रमशो व्याधौ शतं त्रीणि च पञ्च च ।
शतानि सप्त चाष्टौ च दश मन्थेऽनिले दश ॥ २४ ॥
पित्ते षट् स्वस्थवृत्ते च बलासे पञ्च धारयेत् ।
कृत्वापाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत् ॥ २५ ॥
पिबेच्च धूमं नेक्षेत व्योमरूपं च भास्वरम् ।
इत्थं प्रतिदिनं वाते पित्ते त्वेकान्तरं कफे ॥ २६ ॥
स्वस्थे च द्व्यन्तरं दद्यादातृप्तेरिति योजयेत् ।
प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम् ॥ २७ ॥
318-a
तृप्ते विपर्ययोऽतृप्ते तृप्तेऽतिश्लेष्मजा रुजः ।
पुटपाकं प्रयुञ्जीत पूर्वोक्तेष्वेव पक्ष्मसु ॥ २८ ॥
सवाते स्नेहनः श्लेष्मसहिते लेखनो मतः ।
तृट्दौर्बल्येऽनिले पित्ते रक्ते स्वस्थे प्रसादनः ॥ २९ ॥
बिल्वमात्रं पृथक् पिण्डं मांसभेषजकल्कयोः ।
उरुबूकवटाम्भोजपत्रैः स्निग्धादिषु क्रमात् ॥ ३० ॥
बेष्टयित्वा मृदालिप्तं धवधन्वनगोमयैः ।
पचेत् प्रदीप्तैरग्न्याभं पक्वं निष्पीड्य तद्रसम् ॥ ३१ ॥
नेत्रे तर्पणवत् युञ्ज्याच्छतं द्वे त्रीणि धारयेत् ।
लेखनस्नेहनान्त्येषु कोष्णौ पूर्वौ हिमोऽपरः ॥ ३२ ॥
थूमपोऽन्ते तयोरेव योगास्तत्र च तृप्तिवत् ।
तर्पणं पुटपाकं च नस्यानर्हे न योजयेत् ॥ ३३ ॥
यावन्त्यहानि युञ्जीत द्विगुणो हितभाग्भवेत् ॥ ३४ ॥