317-a
मन्दघर्षास्रुरागेऽक्ष्णि प्रयोज्यं घनदूषिके ।
लेखनं रोपणं दृष्टिप्रसादनमिति त्रिधा ॥ ८ ॥
अञ्जनं लेखनं तत्र कषायाम्लपटूषणैः ।
रोपणं तिक्तकैर्द्रव्यैः स्वादुशीतैः प्रसादनम् ॥ ९ ॥
दशाङ्गुला तनुर्मध्ये शलाका मुकुलानना ।
प्रशस्ता लेखने ताम्री रोपणे काललोहजा ॥ १० ॥
अङ्गुला च सुवर्णोत्था रूपजा च प्रसादने ।
पिण्डो रसक्रिया चूर्णं त्रिधैवाञ्जनकल्पना ॥ ११ ॥
गुरौ मध्यलघौ दोषे तां क्रमेण प्रयोजयेत् ।
अथानून्मीलयन् दृष्टी अन्तः सञ्चारयेच्छनैः ॥ १२ ॥
अञ्जिते वर्त्मनी किञ्चिच्चालयेच्चैवमञ्जनम् ।
अपेतौषधसम्बन्धं निर्वृतं नयनं यदा ॥ १३ ॥
व्याधिदोषं तु योग्याभिरद्भिः प्रक्षालयेत्तदा ।
दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं सवाससा ॥ १४ ॥
ऊर्ध्ववर्त्मनि संगृह्य शोध्यं वामेन चेतरत् ।
निशि स्वप्नेन मध्याह्नपानान्नोष्णगभस्तिभिः ॥ १५ ॥
अक्षिरोगाय दोषाः स्युर्वर्धितोत्पीडितद्रुताः ।
प्रातः सायं च तच्छान्त्यै व्यभ्रकेऽतोऽञ्जयेत्सदा ॥ १६ ॥
कण्डूजाड्येऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः ।
तीक्ष्णाञ्जनाभितप्ते तु तूर्णं प्रत्यञ्जनं हितम् ॥ १७ ॥