46-a
समस्य रक्षणं कार्यं विषमे वातनिग्रहः ।
तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम् ॥ १ ॥
त्रिकटुकमजमोदा सैन्धवं जीरके द्वे
समधरणघृतानामष्टमो हिङ्गुभागः ।
प्रथमकुडवभुक्तं सर्पिषा चूर्णमेत-
ज्जनयति जठराग्निं वातरोगांश्च हन्यात् ॥ २ ॥
समयवशूकमहौषध-
चूर्णं लीढं घृतेन गोसर्गे ।