1-a
श्रीः । चक्रदत्तः ।

Adhikāra 1

गुणत्रयविभेदेन मूर्तित्रयमुपेयुषे ।
त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः ॥ १ ॥
नानायुर्वेदविख्यातसद्योगैश्चक्रपाणिना ।
क्रियते संग्रहो गूढवाक्यबोधकवाक्यवान् ॥ २ ॥
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ।
ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत् ॥ ३ ॥
नवज्वरे दिवास्वप्नस्नानाऽभ्यङ्गान्नमैथुनम् ।
क्रोधप्रवातव्यायामकषायांश्च विवर्जयेत् ॥ ४ ॥
ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् ।
क्षयाऽनिलभयक्रोधकामशोकश्रमोद्भवात् ॥ ५ ॥