Adhikāra 8
१साध्यं तु पाण्ड्वामयिनं समीक्ष्य
स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम् ।
सम्पादयेत्क्षौद्रवृतप्रगाढै-
र्हरीतकीचूर्णमयैः प्रयोगैः ॥ १ ॥
पिबेद्धृतं वा रजनीविपक्वं
सत्रैफलं तैलकमेव चापि ।
विरेचनद्रव्यकृतान्पिबेद्वा
योगांश्च वैरेचनिकान्घृतेन ॥ २ ॥
विधिः स्निग्धोऽथ वातोत्थे तिक्तशीतस्तु पैत्तिके ।
श्लैष्मिके कटुरुक्षोष्णः कार्यो मिश्रस्तु मिश्रके ॥ ३ ॥
द्विशर्करं त्रिवृच्चूर्णं पलार्धं पैत्तिके पिबेत् ।
कफपाण्डुस्तु गोमूत्रयुक्तां क्लिन्नां हरीतकीम् ॥ ४ ॥
नागरं लोहचूर्णं वा कृष्णां पथ्यामथाश्मजम् ।
गुग्गुलुं वाऽथ मूत्रेण कफपाण्ड्वामयी पिबेत् ॥ ५ ॥
सप्तरात्रं गवां मूत्रे भावितं वाप्ययोरजः ।
पाण्डुरोगप्रशान्त्यर्थं पयसा प्रपिबेन्नरः ॥ ६ ॥
फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बजः ।
क्वाथः क्षौद्रयुतो हन्यात्पाण्डुरोगं सकामलम् ॥ ७ ॥
२अयस्तिलत्र्यूषणकोलभागैः
सर्वैः समं माक्षिकधातुचूर्णम् ।
54-a
तैर्मोदकः क्षौद्रयुतोऽनुतक्रः
पाण्ड्वामये दूरगतेऽपि शस्तः ॥ ८ ॥
अयोमलं तु सन्तप्तं भूयो गोमूत्रशोधितम् ।
मधुसर्पिर्युतं चूर्णं सह भक्तेन योजयेत् ॥ ९ ॥
दीपनं चाग्निजननं शोथपाण्ड्वामयापहम् ।
त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः ॥ १० ॥
नवायोरजसो भागास्तच्चूर्णं मधुसर्पिषा ।
भक्षयेत्पाण्डुहृद्रोगकुष्ठार्शःकामलापहम् ॥ ११ ॥
३त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च ।
भागश्चित्रकमूलस्य विडङ्गानां तथैव च ॥ १२ ॥
पञ्चाश्मजतुनो भागास्तथारूप्यमलस्य च ।
माक्षिकस्य विशुद्धस्य लौहस्य रजसस्तथा ॥ १३ ॥
अष्टौ भागाः सितायाश्च तत्सर्वं श्लक्ष्णचूर्णितम् ।
माक्षिकेनाप्लुतं स्थाप्यमायसे पायसे शुभे ॥ १४ ॥
उदुम्बरसमां मात्रां ततः खादेद्यथाग्निना ।
दिने दिने प्रयोगेण जीर्णे भोज्यं यथेप्सितम् ॥ १५ ॥
बर्जयित्वा कुलत्थांश्च काकमाची कपोतकान् ।
योगराज इति ख्यातो योगोऽयममृतोपमः ॥ १६ ॥
रसायनमिदं श्रेष्ठं सर्वरोगहरं परम् ।
पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम् ॥ १७ ॥
कुष्ठान्यजरकं मेहं श्वासं हिक्कामरोचकम् ।
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च ॥ १८ ॥
४विशालाकटुकामुस्तकुष्ठदारुकलिङ्गकाः ।
कर्षांशा द्विपिचुर्मूर्वा कर्षार्धा च घनप्रिया ॥ १९ ॥
पीत्वा तच्चूर्णमम्भोभिः सुखैर्लिह्यात्ततो मधु ।
पाण्डुरोगं ज्वरं दाहं कासं श्वासमरोचकम् ॥ २० ॥
गुल्मानाहामवातांश्च तिक्तपित्तं च तज्जयेत् ।
५लौहपात्रे शृतं क्षीरं सप्ताहं पथ्यभोजनम् ॥ २१ ॥
पिबेत्पाण्ड्वामयी शोषी ग्रहणीदोषपीडितः ।
कल्याणकं पञ्चगव्यं महातिक्तमथापि वा ॥ २२ ॥
स्नेहनार्थं घृतं दद्यात्कामलापाण्डुरोगिणे ।
रेचनं कामलार्तस्य स्निग्धस्यादौ प्रयोजयेत् ॥ २३ ॥
ततः प्रशमनी कार्या क्रिया वैद्येन जानता ।
55-a
६त्रिफलाया गुडूच्या वा दार्व्या
निम्बस्य वा रसः ॥ २४ ॥
प्रातर्माक्षिकसंयुक्तः शीलितः कामलापहः ।
अञ्जनं काममार्तस्य द्रोणपुष्पीरसः स्मृतः ॥ २५ ॥
निशागैरिकधात्रीणां चूर्णं वा संप्रकल्पयेत् ।
नस्यं कर्कोटमूलं वा घ्रेयं वा जालिनीफलम् ॥ २६ ॥
सशर्कराकामलिनां त्रिभण्डी
हिता गवाक्षी सगुडा च शुण्ठी ॥ २७ ॥
दार्वीसत्रिफलाव्योषविडङ्गान्ययसो रजः ।
मधुसर्पिर्युतं लिह्यात्कामलापाण्डुरोगवान् ॥ २८ ॥
तुल्या अयोरजःपथ्याहरिद्राः क्षौद्रसर्पिषा ।
चूर्णिताः कामली लिह्याद्गुडक्षौद्रेण वा भयाम् ॥ २९ ॥
धात्रीलौहरजोव्योषनिशाक्षौद्राज्यशर्कराः ।
लीढ्वा निवारयत्याशु कामलामुद्धतामपि ॥ ३० ॥
दग्ध्वाक्षकाष्ठैर्मलमायसं तु
गोमूत्रनिर्वापितमष्टवारान् ।
विचूर्ण्य लीढं मधुना चिरेण
कुम्भाह्वयं पाण्डुगदं निहन्ति ॥ ३१ ॥
पाण्डुरोगक्रियां सर्वां योजयेच्च हलीमके ।
कामलायां च या दृष्टा सापि कार्या भिषग्वरैः ॥ ३२ ॥
७विडङ्गमुस्तत्रिफलादेवदारुषडूषणैः ।
तुल्यमात्रमयश्चूर्णं गोमूत्रेऽष्टगुणे पचेत् ॥ ३३ ॥
तैरक्षमात्रां गुडिकां कृत्वा खादेद्दिने दिने ।
कामलापाण्डुरोगार्तः सुखमापद्यते चिरात् ॥ ३४ ॥
८त्र्यूषणं त्रिफला मुस्तं विडङ्गं चव्यचित्रकौ ।
दार्वी त्वङ्माक्षिको धातुर्ग्रन्थिकं देवदारु च ॥ ३५ ॥
एषां द्विपलिकान्भागांश्चूर्णं कृत्वा पृथक् पृथक् ।
मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम् ॥ ३६ ॥
मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तु प्रक्षिपेत्ततः ।
उदुम्बरसमान्कुर्याद्वटकांस्तान्यथाग्नितः ॥ ३७ ॥
उपयुञ्जीत तक्रेण सात्म्यं जीर्णे च भोजनम् ।
मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम् ॥ ३८ ॥
कुष्ठान्यजरकं शोथमूरुस्तम्भकफामयान् ।
अर्शांसि कामलामेहान्प्लीहानं शमयन्ति च ॥ ३९ ॥
निर्वाष्य बहुशो मूत्रे मण्डूरं ग्राह्यमिष्यते ।
ग्राहयन्त्यष्टगुणितं मूत्रं मण्डूरचूर्णतः ॥ ४० ॥
९पुनर्नवात्रिवृच्छुण्ठीपिप्पलीमरिचानि च ।
विडङ्गं देवकाष्ठं च चित्रकं पुष्कराह्वयम् ॥ ४१ ॥
त्रिफलां द्वे हरिद्रे च दन्तीं च चविकं तथा ।
कुटजस्य फलं तिक्ता पिप्पलीमूलमुस्तकम् ॥ ४२ ॥
एतानि समभागानि मण्डूरं द्विगुणं ततः ।
गोमूत्रेऽष्टगुणे पक्त्वा स्थापयेत्स्निग्धभाजने ॥ ४३ ॥
पाण्डुशोथोदरानाहशूलार्शः क्रिमिगुल्मनुत् ।
१०पञ्चकोलं समरिचं देवदारु फलत्रिकम् ॥ ४४ ॥
विडङ्गमुस्तयुक्ताश्च भागास्त्रिपलसम्मिताः ।
यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः ॥ ४५ ॥
पक्त्वा चाष्टगुणे मूत्रे घनीभूते तदुद्धरेत् ।
ततोऽक्षमात्रान्गुडकान्पिबेत्तक्रेण तक्रभुक् ॥ ४६ ॥
पाण्डुरोगं जयत्येष मन्दाग्नित्वमरोचकम् ।
अर्शांसि ग्रहणीदोषमूरुस्तम्भमथापि वा ॥ ४७ ॥
क्रिमिप्लीहानमुदरं गररोगं च नाशयेत् ।
मण्डूरवज्रनामायं रोगानीकविनाशनः ॥ ४८ ॥
११धात्रीफलसहस्रे द्वे पीडयित्वा रसं भिषक् ।
क्षौद्राष्टभागं पिप्पल्याश्चूर्णार्धकुडवान्वितम्॥ ४९ ॥
शर्करार्धतुलोन्मिश्रं पक्वं स्निग्धवटे स्थितम् ।
प्रपिबेत्पाण्डुरोगार्तो जीर्णे हितमिताशनः ॥ ५० ॥
कामलापाण्डुहृद्रोगवातासृग्विषमज्वरान् ।
कासहिक्कारुचिश्वासानेषोऽरिष्टः प्रणाशयेत् ॥ ५१ ॥
१२पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः ।
कामलागुल्मपाण्ड्वर्तिज्वरमहोदेरापहः ॥ ५२ ॥
१३हरिद्रात्रिफलानिम्बबलामधुकसाधितम् ।
सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम् ॥ ५३ ॥
१४मूर्वातिक्तानिशायासकृष्णाचन्दनपर्पटैः ।
त्रायन्तीवत्सभूनिम्बपटोलाम्बुददारुभिः ॥ ५४ ॥
अक्षमात्रैर्घृतप्रस्थं सिद्धं क्षीरं चतुर्गुणम् ।
पाण्डुताज्वरविस्फोटशोथार्शोरक्तपित्तनुत् ॥ ५५ ॥
१५व्योषं बिल्वं द्विरजनी त्रिफला द्विपुनर्नवा ।
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च ॥ ५६ ॥
वृश्चिकाली च भार्गी च सक्षीरैस्तैर्घृतं शृतम् ।
सर्वान्प्रशमयत्येतद्विकारान्मृत्तिकाकृतान् ॥ ५७ ॥