54-a
तैर्मोदकः क्षौद्रयुतोऽनुतक्रः
पाण्ड्वामये दूरगतेऽपि शस्तः ॥ ८ ॥
अयोमलं तु सन्तप्तं भूयो गोमूत्रशोधितम् ।
मधुसर्पिर्युतं चूर्णं सह भक्तेन योजयेत् ॥ ९ ॥
दीपनं चाग्निजननं शोथपाण्ड्वामयापहम् ।
त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः ॥ १० ॥
नवायोरजसो भागास्तच्चूर्णं मधुसर्पिषा ।
भक्षयेत्पाण्डुहृद्रोगकुष्ठार्शःकामलापहम् ॥ ११ ॥
त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च ।
भागश्चित्रकमूलस्य विडङ्गानां तथैव च ॥ १२ ॥
पञ्चाश्मजतुनो भागास्तथारूप्यमलस्य च ।
माक्षिकस्य विशुद्धस्य लौहस्य रजसस्तथा ॥ १३ ॥
अष्टौ भागाः सितायाश्च तत्सर्वं श्लक्ष्णचूर्णितम् ।
माक्षिकेनाप्लुतं स्थाप्यमायसे पायसे शुभे ॥ १४ ॥
उदुम्बरसमां मात्रां ततः खादेद्यथाग्निना ।
दिने दिने प्रयोगेण जीर्णे भोज्यं यथेप्सितम् ॥ १५ ॥
बर्जयित्वा कुलत्थांश्च काकमाची कपोतकान् ।
योगराज इति ख्यातो योगोऽयममृतोपमः ॥ १६ ॥
रसायनमिदं श्रेष्ठं सर्वरोगहरं परम् ।
पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम् ॥ १७ ॥
कुष्ठान्यजरकं मेहं श्वासं हिक्कामरोचकम् ।
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च ॥ १८ ॥