63-a
शालिषष्टिकगोधूमयवमुद्गादयः शुभाः ।
मद्यानि जाङ्गलाः पक्षिमृगाः शस्ता विशुष्यतां ॥ १ ॥
शुष्यतां क्षीणमांसानां कल्पितानि विधानवित् ।
दद्यात्क्रव्यादमांसानि बृंहणानि विशेषतः ॥ २ ॥
दोषाधिकानां वमनं शस्यते सविरेचनम् ।
स्नेहस्वेदोपपन्नानां स्नेहनं यन्न कर्षणम् ॥ ३ ॥
शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम् ।
शुक्रायत्तं बलं पुंसां मलायत्तं हि जीवितम् ॥ ४ ॥
तस्माद्यत्नेन संरक्षेद्यक्ष्मिणो मलरेतसी ।
सपिप्पलीकं सयवं सकुलत्थं सनागरम् ॥ ५ ॥
दाडिमामलकोपेतं सिद्धमाजरसं पिबेत् ।
तेन षड्विनिवर्तन्ते विकाराः पीनसादयः ॥ ६ ॥
रसे द्रव्याम्बुपेयावत्सूदशास्त्रवशादिह ।
पलानि द्वादशप्रस्थे घनेऽथ तनुके तु षट् ॥ ७ ॥
मांसस्य वटकं कुर्यात्पलमच्छतरे रसे ।
धन्याकपिप्पलीविश्वदशमूलीजलं पिबेत् ॥ ८ ॥
पार्श्वशूलज्वरश्वासपीनसादिनिवृत्तये ।
अश्वगन्धामृताभीरुदशमूलीबलावृषाः ॥ ९ ॥
पुष्करातिविषे घ्नन्ति क्षयं क्षीररसाशिनः ।