Adhikāra 14

वान्तिं समीरणे पित्ते विरेकं वमनं कफे ।
कुर्याद्धृद्यानुकूलानि हर्षणं च मनोघ्नजे ॥ १ ॥
वान्तो वचाद्भिरनिले विधिवत्पिवेत्तु
स्नेहोष्णतोयमदिरान्यतमेन चूर्णम् ।
कृष्णाविडङ्गयवभस्महरेणुभार्गी-
रास्नैलहिङ्गुलवणोत्तमनागराणाम् ॥ २ ॥
पैत्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं
लेहः ससैन्धवसितामधुसर्पिरिष्टः ।
निम्बाम्बु छर्दितवतः कफजे तु पानं
राजद्रुमाम्बु मधुना सह दीप्यकाढ्यम् ॥ ३ ॥
चूर्णं यदुक्तमथवानिलजे तदेव
सर्वैश्च सर्वकृतमेवमुपक्रमेच्च ॥ ४ ॥
78-b
कुष्ठसौवर्चलाजाजी शर्करामरिचं बिडम् ।
धात्र्येलापद्मकोशीरपिप्पलीचन्दनोत्पलम् ॥ ५ ॥
लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजम् ।
आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुतः ॥ ६ ॥
सतैलमाक्षिकाश्चैते चत्वारः कुडवग्रहाः ।
चतुरोऽरोचकान्हन्युर्वाताद्यैकजसर्वजान् ॥ ७ ॥
त्वङ्मुस्तमेलाधान्यानि मुस्तमामलकानि च ।
त्वक्च दार्वी यमान्यश्च पिप्पल्यस्तेजवत्यपि ॥ ८ ॥
यमानी तिन्तिडीकं च पञ्चैते मुखशोधनाः ।
श्लोकपादैरभिहिताः सर्वारोचकनाशनाः ॥ ९ ॥
अम्लिका गुडतोयं च त्वगेलामरिचान्वितम् ।
अभक्तच्छन्दरोगेषु शस्तं कुडवधारणम् ॥ १० ॥
कारव्यजाजीमरिचं द्राक्षावृक्षाम्लदाडिमम् ।
सौवर्चलं गुडं क्षौद्रं सर्वारोचकनाशनम् ॥ ११ ॥
त्रीण्यूषणानि त्रिफला रजनीद्वयं च
चूर्णीकृतानि यबशूकविमिश्रितानि ।
क्षौद्रान्वितानि वितरेन्मुखधारणार्थ-
मन्यानि तिक्तकटुकानि च भेषजानि ॥ १२ ॥
विट्चूर्णमधुसंयुक्तो रसो दाडिमसम्भवः ।
असाध्यामपि संहन्यादरुचिं वक्त्रधारितः ॥ १३ ॥
79-a
यमानी तिन्तिडीकं च नागरं चाम्लवेतसम् ।
दाडिमं बदरं चाम्लं कार्षिकाण्युपकल्पयेत् ॥ १४ ॥
धान्यसौवर्चलालाजी वराङ्गं चार्धकार्षिकम् ।
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च ॥ १५ ॥
शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत् ।
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम् ॥ १६ ॥
हृत्पीडापार्श्वशूलघ्नं विबन्धानाहनाशनम् ।
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत् ॥ १७ ॥
अष्टादश शिग्रुफला-
न्यथ दशमरिचानि विंशतिश्च पिप्पल्यः ।
79-b
आर्द्रकपलं गुडपलं
प्रस्थत्रयमारनालवृक्षस्य ॥ १८ ॥
एतद्बिडलवणयुतं
खजाहतं सुरभि गन्धाढ्यम् ।
व्यञ्जनसहस्रघाति
ज्ञेयं कलहंसकं नाम ॥ १९ ॥