83-b
ओदनं रक्तशालीनां शीतं माक्षिकसंयुतम् ।
भोजयेत्तेन शाम्येत्तु छर्दिस्तृष्णाचिरोत्थिता ॥ २५ ॥
पूर्वामयातुरः सन्दीनस्तृष्णार्दितो जलं याचन् ।
न लभेत चेदाश्वेव मरणमाप्नोति दीर्घरोगं वा ॥ २६ ॥
तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति ।
तस्मात्सर्वास्ववस्थासु न क्वचिद्वारि वार्यते ॥ २७ ॥

Adhikāra 17

सेकावगाहौ मणयः सहाराः
शीताः प्रदेहा व्यजनानिलश्च ।
शीतानि पानानि च गन्धवन्ति
सर्वासु मूर्च्छासु निवारितानि ॥ १ ॥
सिद्धानि वर्गे मधुरे पयांसि
सदाडिमा जाङ्गलजा रसाश्च ।
तथा यवा लोहितशालयश्च
मूर्च्छासु शस्ताश्च सतीनमुद्गाः ॥ २ ॥