Adhikāra 18

मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः ।
परूषकैः सामलकैर्युक्तो मद्यविकारणुत् ॥ १ ॥
जले चतुष्पले शीते क्षुण्णद्रव्यपलं क्षिपेत् ।
मृत्पात्रे मर्दयेत्सम्यक्तस्माच्च द्विपलं पिबेत् ॥ २ ॥
सतीलमुद्गमिश्रान्वा दाडिमामलकान्वितान् ।
द्राक्षामलकखर्जूरपरूषकरसेन वा ।
कल्पयेत्तर्पणान्यूषान्रसांश्च विबिधात्मकान् ॥ ३ ॥
85-a
मद्यं सौवर्चलव्योषयुक्तं किञ्चिज्जलान्वितम्
जीर्णमद्याय दातव्यं वातपानात्ययापहम् ॥ ४ ॥
मुद्गयूषः सितायुक्तः स्वादुर्वापैशितो रसः ।
पित्तपानात्यये योज्याः सर्वतश्च क्रिया हिमाः ॥ ५ ॥
पानात्यये कफोद्भूते लङ्घनं च यथाबलम् ।
दीपनीयौषधोपेतं पिबेन्मद्यं समाहितः ॥ ६ ॥
सर्वजे सर्वमेवेदं प्रयोक्तव्यं चिकित्सितम् ।
आभिः क्रियाभिर्मिश्राभिः शान्तिं याति मदात्ययः ॥ ७ ॥
न चेन्मद्यक्रमं मुक्त्वा क्षीरमस्य प्रयोजयेत् ।
लङ्घनाद्यैः कफे क्षीणे जातदौर्बल्यलाघवे ॥ ८ ॥
ओजस्तुल्यगुणं क्षीरं विपरीतं च मद्यतः ।
क्षीरप्रयोगं मद्यं वा क्रमेणाल्पाल्पमाचरेत् ॥ ९ ॥
पयः पुनर्नवाक्वाथयष्टीकल्कप्रसाधितम् ।
घृतं पुष्टिकरं पानान्मद्यपानहतौजसः ॥ १० ॥
सौवर्चलमजाज्यं च वृक्षाम्लं साम्लवेतसम् ।
त्वगेलामरिचार्धांशं शर्कराभागयोजितम् ॥ ११ ॥
85-b
हितं लवणमष्टाङ्गमग्निसंदीपनं परम् ।
मदात्यये कफप्राये दद्यास्रोतोविशोधनम् ॥ १२ ॥
चव्यं सौवर्चलं हिङ्गुपूरकं विश्वदीप्यकम् ।
चूर्णं मद्येन दातव्यं पानात्ययरुजापहम् ॥ १३ ॥
जलाप्लुतश्चन्दनरूषिताङ्गः
स्रग्वी सभक्तां पिशितोपदंशाम् ।
पिबन्सुरां नैव लभेत रोगान्
मनोमतिघ्नं च मदं न याति ॥ १४ ॥
द्राक्षाकपित्थफलदाडिमपानकं यत् ।
तत्पानविभ्रमहरं मधुशर्कराढ्यम् ॥ १५ ॥
पथ्याक्वाथेन संसिद्धं घृतं धात्रीरसेन वा ।
सर्पिः कल्याणकं वापि मदमूर्च्छाहरं पिबेत् ॥ १६ ॥
सच्छर्दिमूर्च्छातीसारं मदं पूगफलोद्भवम् ।
सद्यः प्रशमयेत्पीतमातृप्तेर्वारि शीतलम् ॥ १७ ॥
वन्यकरीषघ्राणाज्जलपानाल्लवणभक्षणाद्वापि ।
शाम्यति पूगफलमदश्चूर्णरुजाशर्कराकवलात् ॥ १८ ॥
शङ्खचूर्णरजोघ्राणं स्वल्पं मदमपोहति ।
कूष्माण्डकरसः सगुडः शमयति मदनकोद्रवजम् ।
धौस्तुरं च दुग्धं सशर्करं पानयोगेन ॥ १९ ॥