Adhikāra 24

115-b
श्लेष्मणः क्षपणं यत्स्यान्न च मारुतकोपनम् ।
तत्सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम् ॥ १ ॥
तस्य न स्नेहनं कार्यं न बस्तिर्न च रेचनम् ।
सर्वो रुक्षः क्रमः कार्यस्तत्रादौ कफनाशनः ॥ २ ॥
पश्चाद्वातविनाशाय कृत्स्नः कार्यः क्रियाक्रमः ।
शिलाजतुं गुग्गुलुं वा पिप्पलीमथ नागरम् ॥ ३ ॥
ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलीरसेन वा ।
भल्लातकामृताशुण्ठीदारुपथ्यापुनर्नवाः ॥ ४ ॥
पञ्चमूलीद्वयोन्मिश्रा ऊरुस्तम्भनिबर्हणाः ।
पिप्पलीपिप्पलीमूलभल्लातक्वाथ एव वा ॥ ५ ॥
कल्को वा समधुर्देय ऊरुस्तम्भविनाशनः ।
त्रिफलाचव्यकटुकग्रन्थिकं मधुना लिहेत् ॥ ६ ॥
ऊरुस्तम्भविनाशाय पुरं मूत्रेण वा पिबेत् ।
लिह्याद्वा त्रिफलाचूर्णं क्षौद्रेण कटुकायुतम् ॥ ७ ॥
सुखाम्बुना पिबेद्वापि चूर्णं षड्धरणं नरः ।
पिप्पलीवर्धमानं वा माक्षिकेण गुडेन वा ॥ ८ ॥
ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टमेव वा ।
चव्याभयाग्निदारूणां समधुः स्यादुरुग्रहे ॥ ९ ॥
कल्को दिहेच्च मूत्राढ्यैः करञ्जफलसर्षपैः ।
क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतं भिषक् ॥ १० ॥
गाढमुत्सादनं कुर्यादूरुस्तम्भे सलेपनम् ।
कफक्षयार्थं व्यायामेष्वेनं शक्येषु योजयेत् ॥ ११ ॥
स्थलान्याक्रामयेत्कल्कं प्रतिस्रोतोनदीस्तरेत् ।
पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः ॥ १२ ॥
116-a
तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः ।
अष्टकट्वरतैलेऽत्र तैलं सार्षपमिष्यते ॥ १३ ॥
कुष्टश्रीवेष्टकोदीच्यं सरलं दारुकेशरम् ।
अजगन्धाश्वगन्धा च तैलं तैः सार्षपं पचेत् ॥ १४ ॥
सक्षौद्रं मात्रया तस्मादूरुस्तम्भार्दितः पिबेत् ।
सैन्धवाद्यं हितं तैलं वर्षाभ्वमृतगुग्गुलुः ॥ १५ ॥