Adhikāra 25

116-b
लङ्घनं स्वेदनं तिक्तं दीपनानि कटूनि च ।
विरेचनं स्नेहपानं वस्तयश्चाममारुते ॥ १ ॥
सैन्धवाद्ये नानुवास्य क्षारबस्तिः प्रशस्यते ।
आमवाते पञ्चकोलसिद्धं पानान्नमिष्यते ॥ २ ॥
रुक्षः स्वेदो विधातव्यो वालुकापुटकैस्तथा ।
शटी शुण्ठ्यभया चोग्रा देवाह्वातिविषामृता ॥ ३ ॥
कषायमामवातस्य पाचनं रूक्षभोजनम् ।
शटीविश्वौषधीकल्कं वर्षाभूक्वाथसंयुतम् ॥ ४ ॥
सप्तरात्रं पिबेज्जन्तुरामवातविपाचनम् ।
दशमूलामृतैरण्डरास्नानागरदारुभिः ।
क्वाथो रुबूकतैलेन सामं हन्त्यनिलं गुरुम् ॥ ५ ॥
दशमूलीकषायेण पिबेद्वा नागराम्भसा ।
कुक्षिबस्तिकटीशूले तैलमेरण्डसम्भवम् ॥ ६ ॥
रास्नां गुडूचीमेरण्डं देवदारुमहौषधम् ।
पिवेत्सर्वाङ्गिके वाते सामे सन्ध्यस्थिमज्जगे ॥ ७ ॥
117-a
रास्नामृतारग्वधदेवदारु-
त्रिकण्टकैरण्डपुनर्नवानाम् ।
क्वाथं पिबेन्नागरचूर्णमिश्रं
जङ्घोरुपृष्ठत्रिकपार्श्वशूली ॥ ८ ॥
शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः ।
सामवाते कटीशूले पाचनो रुक्प्रणाशनः ॥ ९ ॥
आमवाते कणायुक्तं दशमूलरसं पिबेत् ।
खादेद्वाप्यभयाविश्वं गुडूचीं नागरेण वा ॥ १० ॥
एरण्डतैलसंयुक्तां हरीतकीं भक्षयेन्नरो विधिवत् ।
आमानिलार्तियुक्तो गृध्रसीवृद्ध्यर्दितो नित्यम् ॥ ११ ॥
कर्षं नागरचूर्णस्य काञ्जिकेन पिबेत्सदा ।
आमवातप्रशमनं कफवातहरं परम् ॥ १२ ॥
पञ्चकोलकचूर्णं च पिबेदुष्णेन वारिणा ।
मन्दाग्निशूलगुल्मामकफारोचकनाशनम् ॥ १३ ॥
अमृतानागरगोक्षुरमुण्डतिकावरुणकैः कृतं चूर्णम् ।
मस्त्वारणालपीतमामानिलनाशनं ख्यातम् ॥ १४ ॥
माणिमन्थस्य भागौ द्वौ यमान्यास्तद्वदेव तु ।
भागास्त्रयोऽजमोदाया नागराद्भागपञ्चकम् ॥ १५ ॥
दश द्वौ च हरीतक्याः श्लक्ष्णचूर्णीकृताः शुभाः ।
मस्त्वारणालतक्रेण सर्पिषोष्णोदकेन वा ॥ १६ ॥
पीतं जयत्यामवातगुल्मं हृद्वस्तिजान्गदान् ।
प्लीहानं हन्ति शूलादीनानाहं गुदजानि च ॥ १७ ॥
विबन्धं जाठरान्रोगांस्तथा वै हस्तपादजान् ।
वातानुलोमनमिदं चूर्णं वैश्वानरं स्मृतम् ॥ १८ ॥
117-b
अलम्बुषां गोक्षुरकं गुडूचीं वृद्धदारकम् ।
पिप्पलीं त्रिवृतां मुस्तं वरुणं सपुनर्नवम् ॥ १९ ॥
त्रिफलां नागरं चैव सूक्ष्मचूर्णानि कारयेत् ।
मस्त्वारणालतक्रेण पयोमांसरसेन वा ।
आमवातं निहन्त्याशु श्वयथुं सन्धिसंस्थितम् ॥ २० ॥
शतपुष्पा विडङ्गश्च सैन्धवं मरिचं समम् ।
चूर्णमुष्णाम्बुना पीतमग्निसन्दीपनं परम् ॥ २१ ॥
हिङ्गु चव्यं बिडं शुण्ठी कृष्णाजाजीसपौष्करम् ।
भागोत्तरमिदं चूर्णं पीतं वातामजिद्भवेत् ॥ २२ ॥
118-a
चित्रकं पिप्पलीमूलं यमानीं कारवीं तथा ।
विडङ्गान्यजमोदाश्च जीरकं सुरदारु च ॥ २३ ॥
चव्यैलासैन्धवं कुष्ठं रास्नागोक्षुरधान्यकम् ।
त्रिफलामुस्तकं व्योषं त्वगुशीरं यवाग्रजम् ॥ २४ ॥
तालीसपत्रं पत्रं च सूक्ष्मचूर्णानि कारयेत् ।
यावन्त्येतानि चूर्णानि तावन्मात्रं तु गुग्गुलुम् ॥ २५ ॥
संमर्द्य सर्पिषा गाढं स्निग्धे भाण्डे निधापयेत् ।
ततो मात्रां प्रयुञ्जीत यथेष्टाहारवानपि ॥ २६ ॥
योगराज इति ख्यातो योगोऽयममृतोपमः ।
आमवाताढ्यवातादीन्क्रिमिदुष्टव्रणानपि ॥ २७ ॥
प्लीहगुल्मोदरानाहदुर्नामानि विनाशयेत् ।
अग्निं च कुरुते दीप्तं तेजोवृद्धिं बलं तथा ।
बातरोगाञ्जयत्येष सन्धिमज्जगतानपि ॥ २८ ॥
पलत्रयं कषायस्य त्रिफलायाः सुचूर्णितम् ।
सौगन्धिकपलं चैकं कौशिकस्य पलं तथा ॥ २९ ॥
कुडवं चित्रतैलस्य सर्वमादाय यत्नतः ।
पाचयेत्पाकविद्वैद्यः पात्रे लोहमये दृढे ॥ ३० ॥
हन्ति वातं तथा पित्तं श्लेष्माणं खञ्जपङ्गुताम् ।
श्वासं सुदुर्जयं हन्ति कासं पञ्चविधं तथा ॥ ३१ ॥
कुष्ठानि वातरक्तं च गुल्मशूलोदराणि च ।
आमवातं जयेदेतदपि वैद्यविवर्जितम् ॥ ३२ ॥
118-b
एतदभ्यासयोगेन जरापलितनाशनम् ।
सर्पिस्तैलरसोपेतमश्नीयाच्छालियष्टिकम् ॥ ३३ ॥
सिंहनाद इति ख्यातो रोगबारणदर्पहा ।
वह्निवृद्धिकरः पुंसां भाषितो दण्डपाणिना ॥ ३४ ॥
अलम्बुषागोक्षुरकत्रिफलानागरामृताः ।
यथोत्तरं भागवृद्ध्या श्यामाचूर्णं च तत्समम् ॥ ३५ ॥
पिबेन्मस्तुसुरातक्रकाञ्जिकोष्णोदकेन वा ।
पीतं जयत्यामवातं सशोथं वातशोणितम् ।
त्रिकजानूरुसन्धिस्थं ज्वरारोचकनाशनम् ॥ ३६ ॥
१०पथ्याक्षधात्रीत्रिफलाभागं वृद्धवयःक्रमः ।
पथ्याविश्वयमानीभिस्तुल्याभिश्चूर्णितं पिबेत् ॥ ३७ ॥
तक्रेणोष्णोदकेनाथ अथवा काञ्जिकेन च ।
आमवातं निहन्त्याशु शोथं मन्दाग्नितामपि ॥ ३८ ॥
अजमोदामरिचपिप्पली-
विडङ्गसुरदारुचित्रकशताह्वाः ।
119-a
सैन्धवपिप्पलिमूलं
भागा नवकस्य पलिकाः स्युः ॥ ३९ ॥
शुण्ठीदशपलिका स्यात्
पलानि तावन्ति वृद्धदारस्य ।
पथ्यापञ्चपलानि
सर्वाण्येकत्र कारयेच्चूर्णम् ॥ ४० ॥
समगुडवटकां खादत-
श्चूर्णं वाप्युष्णवारिणा पिबतः ।
नश्यन्त्यामानिलजाः
सर्वा रोगाः सुकष्टास्तु ॥ ४१ ॥
विश्वचिकाप्रतितूनी
तूनीहृद्रोगाश्च गृध्रसी चोग्रा ।
कटिबस्तिगुदस्फुटनं
चैवास्थिजङ्घयोस्तीव्रम् ॥ ४२ ॥
श्वयथुस्तथाङ्गसन्धिषु
ये चान्येऽप्यामवातसम्भूताः ।
सर्वे प्रयान्ति नाशं
तम इव सूर्यांशुविध्वस्तम् ॥ ४३ ॥
११नागरक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत् ।
चतुर्गुणेन तेनाथ केवलेनोदकेन वा ॥ ४४ ॥
वातश्लेष्मप्रशमनमग्निसन्दीपनं परम् ।
नागरं घृतमित्युक्तं कट्यामशूलनाशनम् ॥ ४५ ॥
119-b
१२अमृतायाः कषायेण कल्केन च महौषधात् ।
मृद्वग्निना घृतप्रस्थं वातरक्तहरं परम् ॥ ४६ ॥
आमवाताढ्यवातादीन् क्रिमिदुष्टब्रणानपि ।
अर्शांसि गुल्मशूलं च नाशयत्याशु योजितम् ॥ ४७ ॥
१३हिङ्गु त्रिकटुकं चव्यं माणिमन्थं तथैव च ।
कल्कान्कृत्वा च पलिकान्घृतप्रस्थं विपाचयेत् ॥ ४८ ॥
आरणालाढकं दत्वा तत्सर्पिर्जठरापहम् ।
शूलं विबन्धमानाहमामवातं कटीग्रहम् ।
नाशयेद्ग्रहणीदोषं मन्दाग्नेर्दीपनं परम् ॥ ४९ ॥
१४पुष्ट्यर्थं पयसा साध्यं दग्धविण्मूत्रसंग्रहे ।
दीपनार्थं मतिमता मस्तुना च प्रकीर्तितम् ॥ ५० ॥
सर्पिर्नागरकल्केन सौवीरकचतुर्गुणम् ।
सिद्धमग्निकरं श्रेष्ठमामवातहरं परम् ॥ ५१ ॥
120-a
१५रसोनस्य पलशतं तिलस्य कुडवं तथा ।
हिङ्गु त्रिकटुकं क्षारौ पञ्चैव लवणानि च ॥ ५२ ॥
शतपुष्पा तथा कुष्टं पिप्पलीमूलचित्रकौ ।
अजमोदा यमानी च धान्यकं चापि बुद्धिमान् ॥ ५३ ॥
प्रत्येकं तु पलं चैषां सूक्ष्मचूर्णानि कारयेत् ।
घृतभाण्डे दृढे चैतत्स्थापयेद्दिनषोडश ॥ ५४ ॥
प्रक्षिप्य तैलमानीं च प्रस्थार्धं काञ्जिकस्य च ।
खादेत्कर्षप्रमाणं तु तोयं मद्यं पिबेदनु ॥ ५५ ॥
आमवाते तथा वाते सर्वाङ्गैकाङ्गसंश्रिते ।
अपस्मारेऽनले मन्दे कासे श्वासे गरेषु च ।
सोन्मादवातभङ्गे च शूले जन्तुषु शस्यते ॥ ५६ ॥
१६प्रसारण्याढकक्वाथे प्रस्थो गुडरसोनतः ।
पक्वः पञ्चोषणरजः पादः स्यादामवातहा ॥ ५७ ॥
१७बहुलायाः सुरायास्तु सुपक्वायाः शतं घटे ।
ततोऽर्धेन रसोनं तु संशुद्धं कुट्टितं क्षिपेत् ॥ ५८ ॥
पिप्पलीपिप्पलीमूलमजाजीकुष्ठचित्रकम् ।
नागरं मरिचं चव्यं चूर्णितं चाक्षसम्मितम् ॥ ५९ ॥
सप्ताहात्परतः पेया वातरोगामनाशिनी ।
क्रिमिकुष्ठक्षयानाहगुल्मार्शःप्लीहमेहनुत् ।
अग्निसन्दीपनी चैव पाण्डुरोगबिनाशिनी ॥ ६० ॥
120-b
१८सिद्धार्थकखलीप्रस्थं सुधौतं निस्तुषं जले ।
मण्डप्रस्थं विनिक्षिप्य स्थापयेद्दिवसत्रयम् ॥ ६१ ॥
धान्यराशौ ततो दद्यात्सञ्चूर्ण्य पलिकानि च ।
अलम्बुषा गोक्षुरकं शतपुष्पीपुनर्नवे ॥ ६२ ॥
प्रसारणी वरुणत्वक् शुण्ठी मदनमेव च ।
सम्यक्पाकं तु विज्ञाय सिद्धा तण्डुलमिश्रिता ॥ ६३ ॥
मृष्टा सर्षपतैलेन हिङ्गुसैन्धवसंयुता ।
भक्षिता लवणोपेता जयेदामं महाज्वरम् ॥ ६४ ॥
एकजं द्वन्द्वजं साध्यं सान्निपातिकमेव च ।
कट्यूरुवातमानाहजानुजं त्रिकमागतम् ।
उदावर्तहरी पेया बलवर्णाग्निकारिणी ॥ ६५ ॥
१९त्वगादिहीनाः संशुष्काः
प्रत्यग्राः सकुलादयः ।
श्लक्ष्णचूर्णीकृतं तेषां
शीते पलशतत्रयम् ॥ ६६ ॥
शतेन कटुतैलेऽस्य व्योषरामठधान्यकैः ।
121-a
क्रिमिघ्नदीप्यकनिशाचविकाग्रन्थिकार्द्रकैः ।
जीरकद्वयवृश्चीरसुरसार्जकशिग्रुकैः ॥ ६७ ॥
दशमूलात्मगुप्ताभ्यां मार्कवैर्लवणैस्त्रिभिः ।
चूर्णितैः पलिकैः सार्धमारणालपरिप्लुतैः ॥ ६८ ॥
विन्यसेत्स्नेहपात्रे च धान्यराशौ पुनर्न्यसेत् ।
सप्तरात्रात्समुद्धृत्य पानभक्षणभोजनैः ॥ ६९ ॥
सिध्मलेयं प्रयोक्तव्या सामे वाते विशेषतः ।
भग्नरुग्नाभ्युपहताः?कम्पिनः पीठसर्पिणः ॥ ७० ॥
गृध्रसीमग्निसादं च शूलगुल्मोदराणि च ।
वलीपलितखालित्यं हत्वा स्युरमलेन्द्रियाः ॥ ७१ ॥
२०दधिमत्स्यगुडक्षीरपोतकीमाषपिष्टकम् ।
वर्जयेदामवातार्तो गुर्वभिष्यन्दकारि च ॥ ७२ ॥