125-b
१३गोमूत्रसिद्धं मण्डूरं त्रिफलाचूर्णसंयुतम् ।
विलिहन्मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम् ॥ ५८ ॥
शङ्खचूर्णं सलवणं सहिङ्गुव्योषसंयुतम् ।
उष्णोदकेन तत्पीतं शूलं हन्ति त्रिदोषजम् ॥ ५९ ॥
तीक्ष्णायश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम् ।
प्रयोज्यं मधुसर्पिर्भ्यां सर्वं शूलनिवारणम् ॥ ६० ॥
मूत्रान्तःपाचितां शुद्धां लौहचूर्णसमन्विताम् ।
सगुडामभयामद्यात्सर्वशूलप्रशान्तये ॥ ६१ ॥
१४पिप्पली नागरं बिल्वं कारवीचव्यचित्रकम्
हिङ्गुदाडिमवृक्षाम्लवचाक्षाराम्लवेतसम् ॥ ६२ ॥
वर्षाभूकृष्णलवणमजाजीबीजपूरकम् ।
दधि त्रिगुणितं सर्पिस्तत्सिद्धं दाधिकं स्मृतम् ॥ ६३ ॥
गुल्मार्शःप्लीहहृत्पार्श्वशूलयोनिरुजापहम् ।
दोषसंशमनं श्रेष्ठं दाधिकं परमं स्मृतम् ॥ ६४ ॥
१५कम्बलावृतगात्रस्य प्राणायामं प्रकुर्वतः ।
कटुतैलाक्तशक्तूनां धूपः शूलहरः परः ॥ ६५ ॥
व्यायामं मैथुनं मद्यं लवणं कटुवैदलम् ।
वेगरोधं शुचं क्रोधं वर्जयेच्छूलवान्नरः ॥ ६६ ॥

Adhikāra 27